________________
चतुर्विधा विकथाः
१०११ ___ 'प्रतिक्रमामि चतसृभिर्विकथाभिः करणभूताभिर्योऽतिचारः कृतः तद्यथा - 'स्त्रीकथये 'ति विरुद्धा विनष्टा वा कथा विकथा, सा च स्त्रीकथादिलक्षणा, तत्र स्त्रीणां कथा स्त्रीकथा तया, सा चतुर्विधा-जातिकथा कुलकथा रूपकथा नेपथ्यकथा, तत्र जातिकथा ब्राह्मणीप्रभृतीनामन्यतमां प्रशंसति द्वेष्टि वा, कुलकथा उग्रादिकुलप्रसूतानामन्यतमां, रूपकथा अन्ध्रिप्रभृतीनामन्यतमाया रूपं प्रशंसति -
'अन्ध्रीणां च ध्रुवं लीलाचलितभूलते मुखे।
आसज्य राज्यभारं स्वं, सुखं स्वपिति मन्मथः ॥१॥' इत्यादिना, द्वेष्टि वाऽन्यथा, नेपथ्यकथा अन्ध्रीप्रभृतीनामेवान्यतमायाः कच्छटादिनेपथ्यं प्रशंसति द्वेष्टि वा, तथा भक्तम् - ओदनादि तस्य कथा भक्तकथा तया, सा चतुर्विधाऽऽवापादिभेदतः, यथोक्तम् --
'भत्तकहावि चऊद्धा आवावकहा तहेव णिव्वावे । आरंभकहा य तहा णिट्ठाणकहा चउत्थी उ॥१॥ आवावित्तियदव्वा सागघयादी य एत्थ उवउत्ता । दसपंचरूवइत्तियवंजणभेयाइ णिव्वावे ॥२॥ आरंभ छागतित्तिरमहिसारण्णादिया वधित एत्थ ।
रूवगसयपंचसया णिहाणं जा सयसहस्सं ॥३॥' (छाया- भक्तकथापि चतुर्धा आवापकथा तथैव निर्वापे ।
आरम्भकथा च तथा निष्ठानकथा चतुर्थी च ॥१॥ आवाप ईयद्रव्याः शाकघृतादयश्चात्रोपयुक्ताः । दशपञ्चरूप-इयद्-व्यञ्जनभेदादिनिर्वापे ॥२॥ आरम्भे छागतित्तिरमहिषारण्यादिका हता अत्र ।
शतपञ्चशतरूपका निष्ठानं यावत् शतसहस्रम् ॥३॥) देशः-जनपदस्तस्य कथा देशकथा तया, इयमपि छन्दादिभेदादिना चतुर्थैव, यथोक्तम्
'देसस्स कहा भण्णइ देसकहा देस जणवओ होति । सावि चऊद्धा छंदो विही विगप्पो य णेवत्थं ॥१॥