________________
१०१०
चतुर्विधा विकथाः 'आलिट्ठमणालिट्ठमिति आश्लिष्टमनाश्लिष्टं चेति पदद्वयमाश्रित्य रजोहरणशिरसोर्विषये चतुर्भङ्गिका भवति, सा च 'अहो कायं काय' इत्याद्यावर्तकाले सम्भवति, यथा रजोहरणं कराभ्यामाश्लिष्यति शिरश्चेत्येकः १ रजोहरणं श्लिष्यति न शिर इति द्वितीयः २ शिरः श्लिष्यति न रजोहरणमिति तृतीयः ३, न रजोहरणं न शिरश्च श्लिष्यतीति चतुर्थो भङ्ग ४ इति, अत्राऽऽद्यो भङ्गः शुद्धः, शेषभङ्गत्रये आश्लिष्टानाश्लिष्टदोषदुष्टं प्रकृतवन्दनकमवतरतीति २७ । अष्टाविंशं दोषमाह - 'वयणक्खरेहि'ति वचनं-वाक्यं क्रियान्ताक्षरसमूहात्मकं तेन अक्षरैर्वा एकद्व्यादिभिर्हीनं न्यूनमुच्यते, यदि वा 'जहन्नकाले व सेसेहि' ति यदि पुनः कश्चिदत्युत्सुकः प्रमादितया जघन्येनैव-स्वल्पेनैव कालेन वन्दनकं समापयति तदा आस्तां वचनाक्षरैः शेषैरप्यवनामादिभिरावश्यकैयूंनं भवतीत्यर्थः २८ ॥१७॥
एकोनत्रिंशं दोषमाह -
'दाऊणं'ति दत्त्वा वन्दनकं पश्चान्महता शब्देन मस्तकेनाहं वन्दे इति यत्र वदति तदुत्तरचूडमिति २९ । त्रिंशत्तमं दोषमाह - 'मूओव्व'त्ति आलापकाननुच्चारयन् यद् वन्दते तन्मूकमिति ३० ॥१७२॥
एकत्रिंशं दोषमाह -
'ढड्डुरति ढढरेण-महता शब्देनोच्चारयन्नालापकान् यद्वन्दते ढड्डरं तदिहेति ३१ । द्वात्रिंशं दोषमाह - 'चुडुलियव्य'त्ति उल्कामिव-अलातमिव पर्यन्ते रजोहरणं गृहीत्वा भ्रमयन् यत्र वन्दते तच्चुडुलिकमिति द्वात्रिंशद्दोषाः ३२ ॥१७३॥'
गुरुरेतैर्द्वात्रिंशद्भिर्वन्दनदोषै रहितस्य विशुद्धस्य वन्दनदानस्य योग्यो भवति । जनास्तस्मै द्वात्रिंशद्दोषविशुद्धं वन्दनं ददतीत्यर्थः ।
कथा - जल्पनरूपा । विपरीता विरूपा वा कथेति विकथा । सा चतुर्विधा । तद्यथा - १ स्त्रीकथा, २ भक्तकथा, ३ देशकथा, ४ राजकथा च । यदुक्तं श्रमणप्रतिक्रमणसूत्रे -
'चउर्हि विकहाहि - इत्थीकहाए, भत्तकहाए, देसकहाए, रायकहाए।' (छाया- चतुर्भिः विकथाभिः-स्त्रीकथया, भक्तकथया, देशकथया, राजकथया ।) आवश्यकसूत्रवृत्तावेतासां चतुर्विधानां विकथानां स्वरूपमेवं प्रतिपादितम् -