SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशद्विधा वन्दनदोषाः १००७ अष्टमं दोषमाह - 'ट्टितनिवेसितो'त्ति उत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इव उद्वर्तते-उद्वेल्लति यत्र तन्मत्स्योद्वृत्तं अथवा एकमाचार्यादिकं वन्दित्वा तत्समीप एवापरं वन्दना/ कञ्चन वन्दितुमिच्छंस्तत्समीपं जिगमिषुरुपविष्ट एव झष इव-मत्स्य इव त्वरितमङ्गं परावृत्य यद्गच्छति तन्मत्स्योद्वृत्तं, इत्थं च यदङ्गपरावर्तनं तज्झषावर्तमित्यभिधीयते ८ ॥१५९॥ नवममाह - 'अप्पपरपच्चएणं'ति मनसः प्रद्वेषोऽनेकनिमित्तो भवति, स च सर्वोऽप्यात्मप्रत्ययेन परप्रत्ययेन वा स्यात्, तत्राऽऽत्मप्रत्ययेन यदा शिष्य एव गुरुणा किञ्चित्परुषमभिहितो भवतीति, परप्रत्ययेन तु यदा तस्यैव शिष्यस्य सम्बन्धिनः सुहृदादेः सम्मुखं सूरिणा किमप्यप्रियमुक्तं भवतीत्येवंप्रकारैरपरैरपि स्वपरप्रत्ययैः कारणान्तरैर्मनःप्रद्वेषो भवति यत्र तन्मन:प्रद्विष्टमुच्यते, 'अप्पपरपत्तिएणं'ति यदा पाठस्तदा आत्माऽप्रीतिकेन पराऽप्रीतिकेन च मनःप्रदुष्टं भवति, भावना पूर्ववत् ९ । दशमं दोषमाह - 'वेइयापणगंति' जानुनोरुपरि हस्तौ निवेश्य अधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं वा जानुं दक्षिणं वा वामं वा करद्धयान्तः कृत्वा यत्र वन्दनकं विधत्ते तद्वेदिकापञ्चकदोषदुष्टवन्दनकमिति १० ॥१६०।। एकादशं दोषमाह - 'भयंति निज्जूहणाईयंति-नियूहनं गच्छान्निष्काशनं तदादिकं यद्भयं तेन यद्वन्दते तद्भयवन्दनकमाख्यायते इति यथासम्भवं साध्याहारा सर्वत्र व्याख्या कर्तव्या, सूचामात्रत्वात् सूत्रस्येति ११ ॥१६१॥ द्वादशं दोषमाह - 'भयइ व भइस्सइ वत्ति' भर्तव्यं, भो आचार्य भवन्तं वन्दमाना वयं तिष्ठाम इत्येवं निहोरकं निवेशयन् वन्दते, किमर्थं ? - भजते वा मां भजनं वा मे करिष्यतीतिहेतोः, किमुक्तं भवति ? - एष तावद्भजते-अनुवर्तते मां सेवायां पतितो वर्तते ममेत्यर्थः, अग्रे च मम भजनं करिष्यत्यसौ, ततश्चाहमपि वन्दनकसत्कं निहोरकं निवेशयामीत्यभिप्रायेण वा यत्र वन्दते तद्भजमानवन्दनकमभिधीयते इति १२ । त्रयोदशं दोषमाह -'एवमेवे ति 'मित्तीए'त्ति एवमेवेति कोऽर्थः ? यथा निहोरकदोषादिदुष्टं वन्दते तथा मैत्र्याऽपि-मैत्रीमाश्रित्य कश्चिद्वन्दते, आचार्येण सह मैत्री-प्रीतिमिच्छन् वन्दत इत्यर्थः, तदिदं मैत्रीवन्दनकमुच्यते
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy