SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १००६ द्वात्रिंशद्विधा वन्दनदोषाः किमुज्झतीत्याह - "कियकिच्चोवक्खरं चेव'त्ति, एतदुक्तं भवति-केनचिद् भाटकिना कुतश्चिन्नगरान्नगरान्तरेऽवस्कर-भाण्डमुपनीतं, अवस्करस्वामिना च स भाटकी भणितःप्रतीक्षस्व किञ्चित्कालं, यावदस्यावस्करस्यावतारणाय स्थानं किञ्चिदन्वेषयामि कुत्रापीति, स प्राह-मयाऽस्मिन्नेव नगरे समानेतव्यमिदमित्येवोक्तं, अतः कृतकृत्यत्वान्नातः प्रतीक्षेऽहमित्युक्त्वाऽस्थाने एव तद्भाण्डमुज्झित्वा गच्छति, एवं साधुरप्यस्थाने एव वन्दनकं परित्यज्य नश्यतीत्येतावताउंशेन दृष्टान्त इति गाथार्थः ३ ॥१५६॥ चतुर्थं दोषमाह - 'संपिंडिए वत्ति यत्र सम्पिण्डितान् एकत्र मिलितानाचार्यादीनेकवन्दनकेनैव वन्दते न पृथक् २ तत्परिपिण्डितं वन्दनकमुच्यते, अथवा वचनानि-सूत्रोच्चारणरूपाणि करणानिकरचरणादीनि सम्पिण्डितानि-अव्यवच्छिन्नानि वचनकरणानि यस्य स तथा, ऊर्वोरुपरि हस्तौ परिस्थाप्य सम्पिण्डितकरचरणोऽव्यक्तसूत्रोच्चारणपुरस्सरं यद्वन्दते तत्परिपिण्डितमिति भावः ४, पञ्चमं दोषमाह - 'टोलोव्व'त्ति अवष्वष्कणं पश्चाद्गमनमभिष्वष्कणं-अभिमुखगमनं ते अवष्वष्कणाभिष्वष्कणे टोलोव्व-तिड्डवदुत्प्लवमानः करोति यत्र तट्टोलगतिवन्दनकमित्यर्थः ५ ॥१५७॥ षष्ठं दोषमाह - 'उवगरणे'त्ति यत्राङ्कुशेन गजमिव शिष्यः सूरिमूर्ध्वस्थितं शयितं प्रयोजनान्तरव्यग्रं वोपकरणे-चोलपट्टककल्पादौ हस्ते वाऽवज्ञया समाकृष्य वन्दकदानार्थमासने उवपेशयति तदङ्कुशवन्दनकमुच्यते, न हि श्रीपूज्याः कदाचनाप्युपकरणाद्याकर्षणमर्हन्त्यविनयत्वात्, किन्तु प्रणामं कृत्वा कृताञ्जलिपुटैविनयपूर्वकमिदमभिधीयते-उपविशन्तु भगवन्तो येन वन्दनकं प्रयच्छामीत्यतो दोषदुष्टमिदमिति, आवश्यकवृत्तौ तु रजोहरणमङ्कुशवत् कद्धयेन गृहीत्वा यद्वन्द्यते तदङ्कुशमिति व्याख्यातं, अन्ये तु अङ्कुशाक्रान्तस्य हस्तिन इव शिरोऽवनमनोन्नमने कुर्वाणस्य यद्वन्दनं तदङ्कुशमित्याहुः, एतच्च द्वयमपि सूत्रानुयायि न भवति, तत्त्वं पुनर्बहुश्रुता जानन्ति ६, सप्तमं दोषमाह - "ठिउविट्ठरी 'ति स्थितस्योर्ध्वस्थानेन 'तितीसन्नयरा' इत्यादि-सूत्रमुच्चारयतः उपविष्टस्य - आसीनस्य 'अहो कायं काय' इत्यादि सूत्रं भणतः कच्छपस्येव जलचरजीवविशेषस्येव रिङ्गणं-अग्रतोऽभिमुखं पश्चादभिमुखं च यत् किञ्चिच्चलनं तच्च यत्र करोति शिष्यस्तत्कच्छपरिङ्गितं जानीहि ७ ॥१५८॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy