SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशद्विधा वन्दनदोषाः गणिवाचकज्येष्ठार्येति हीलयित्वा किं त्वया वन्दितेन ? | ईषद्वन्दितेऽपि कथां करोति विपरीकुञ्चितमेतत् ॥१६८॥ अन्तरितः तमसि वा न वन्दते वन्दते तु दृश्यमानः । एतत् दृष्टादृष्टं शृङ्गं पुनः मूर्धपार्श्वयोः ॥१६९॥ करमिव मन्यते ददद्वन्दनकं आर्हतकर इति । लौकिककरात् मुक्ता न मुच्यामहे वन्दनकरस्य ॥१७०॥ आश्लिष्टमनाश्लिष्टं रजोहरणशिरोभ्यां भवति चतुर्भङ्गाः । वचनाक्षरैरूनं जघन्यकालेऽपि शेषैः ॥ १७१ ॥ दत्त्वा वन्दनं मस्तकेन वन्दे चूलिका एषा । मूक इव शब्दरहितो यत् वन्दते मूककं तत्तु ॥ १७२॥ ढड्ढरस्वरेण यः पुनः सूत्रं घोषयति ढड्डरं तदिह । डुलिमिव गृहीत्वा रजोहरणं भवति चडुलिं तु ॥१७३॥) १००५ - तत्र वृत्ति: - 'आयरकरण 'मिति आदर:- सम्भ्रमस्तत्करणमादृतं आर्षत्वादाढा तद्विपरीतंतद्रहितमनादृतं भवति १, जात्यादिमदस्तब्धेन क्रियमाणं वन्दनकमपि स्तब्धं, स्तब्धश्च द्रव्यतो भावतश्च भवति, तत्र चतुर्भङ्गिका, यथा द्रव्यतः स्तब्धो न भावतः, भावतः स्तब्धो न द्रव्यतः, अपरो द्रव्यतोऽपि भावतोऽपि च, चतुर्थो न द्रव्यतो न भावतः, द्रव्यतो वातादिपरिगृहीतं कस्यापि शरीरं न नमति भावतस्तु अस्तब्ध एवेत्याद्यो भङ्गः, द्वितीये तु भावः-चित्ताध्यवसायलक्षणः स्तब्धः शरीरं त्वस्तब्धमिति, तृतीये तु द्वयमपि स्तब्धं, चतुर्थे तु द्वयमपि न स्तब्धं, अयं च शुद्धो भङ्गः, शेषभङ्गकेष्वपि भावतः स्तब्धोऽशुद्ध एव, द्रव्यतस्तु भजनीयः - शुद्धोऽशुद्धश्च तत्र उदरपृष्ठशूलव्यथादिबाधितोऽवनामं कर्तुमशक्तः कारणतः स्तब्धोऽपि शुद्धो, निष्कारणस्त्वशुद्धः, अत एवाह - 'दव्वओ भइओ 'त्ति द्रव्यतो भाज्यो भजनीयो, न दुष्ट एव, भावतस्तु स्तब्धो दुष्ट एवेति तात्पर्यम् २ ॥ १५५ ॥ तृतीयदोषमा 'पव्विद्धमणुवयारं 'ति प्रविद्धं नाम यदुपचाररहितं एतदेव व्याचष्टे - यद्वन्दनकं गुरुभ्योऽर्पयन्- ददत् अनियन्त्रितो भवति, अनवस्थित इत्यर्थः अनवस्थितत्वेन च यत्र वा तत्र वा स्थाने प्रथमप्रवेशादिलक्षणेऽसमाप्तमपि वन्दनकमुज्झित्वा नश्यति, क इव यथा
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy