________________
१००८
द्वात्रिंशद्विधा वन्दनदोषाः १३ | चतुर्दशं दोषमाह - 'गारव सिक्खाविणीओऽहं 'ति 'गारव'त्ति गौरवनिमित्तं वन्दनकमिति, कथं तदित्याह - 'सिक्खाविणीओऽहं ति शिक्षावन्दनकप्रदानादिसामाचारीविषया तस्यां विनीतः - कुशलोऽहमित्यवगच्छन्त्वमी सर्वेऽपि साधव इत्यभिप्रायवान् यथावदावर्ताद्याराधयन् यत्र वन्दते तद्गौरववन्दनकमित्यर्थः १४ ॥१६२॥
इदानीं पञ्चदशं दोषमाह -
कारणलक्षणदोषमभिधित्सुः कारणस्यैव तावल्लक्षणमाह - 'नाणाइतियं' ति ज्ञानदर्शनचारित्रत्रयं मुक्त्वा यत्किमप्यन्यदिहलोकसाधकं वस्त्रकम्बलादि वन्दनकदानात्साधुरभिलषति तत्कारणं भवतीति प्रतिपत्तव्यं तस्माद्वन्दनकं कारणवन्दनकमिति । ननु ज्ञानादिग्रहणार्थं यदा वन्दते तदा किमेकान्तेनैव कारणं न भवतीत्याह - 'पूये 'त्यादि, यदि पूजाशयेन गौरवाशयेन वा ज्ञानादिग्रहणेऽपि वन्दते तदा तदपि कारणवन्दनकं भवतीति, अत्र च 'नाणग्गहणेऽवि'त्ति उपलक्षणत्वाद्दर्शनचारित्रग्रहणेऽपीति १५ ॥ १६३ ॥
षोडशं दोषमाह
-
'हाउं परस्से 'ति परस्य - आत्मव्यतिरिक्तस्य साधु श्रावकादेर्दृष्टिं हित्वा - वञ्चयित्वा वन्दमाने सति शिष्ये स्तैन्यवन्दनकं भवति, एतदेवोत्तरार्धेन स्पष्टतरं व्याचष्टे - स्तेन इवतस्कर इवान्यसाध्वाद्यन्तर्धानेनात्मानं गृहयति स्थगयति, कस्मादित्याह - 'ओभावणा मा मे'त्ति नन्वसावप्यतिविद्वान् किमन्येषां वन्दनकं प्रयच्छतीत्येवंरूपाऽपभ्राजना मम मा भूदित्यर्थः १६ ॥१६४॥
सप्तदशं दोषमाह -
'आहारस्स उ' इत्यादि, आहारस्य नीहारस्य वा - उच्चारादेः काले वन्दमानस्य भवति प्रत्यनीकवन्दनकमिति १७ । अष्टादशं दोषमाह - 'रोसेण'त्ति रोषेण केनापि स्वविकल्पजनितेन 'धमधर्मितो' त्ति जाज्वल्यमानो यद् वन्दते तद् रुष्टवन्दनकमिति १८ ॥ १६५॥
एकोनविंशं दोषमाह
'नवि कुप्पसी 'ति काष्ठघटितशिवदेवताविशेष इवावन्द्यमानो न कुप्यसि, तथा वन्द्यमानोऽप्यविशेषज्ञतया न प्रसीदसीत्येवं तर्जयन्- निर्भर्त्सयन् यद् वन्दते तत्तर्जितमुच्यते, यदिवा लोकमध्ये वन्दनकं मां दापयन् त्वं तिष्ठसि सूरे ! परं ज्ञास्यते तवैकाकिन