________________
चतुस्त्रिंशत्तमी षट्विशिका साम्प्रतं चतुस्त्रिंशत्तमी षट्त्रिंशिकामाह - मूलम् - बत्तीसदोसविरहिय-वंदणदाणस्स निच्चमहिगारी ।
चउविहविगहविरत्तो, छत्तीसगुणो गुरू जयउ ॥३५॥ छाया - द्वात्रिंशद्दोषविरहित-वन्दनदानस्य नित्यमधिकारी ।
चतुर्विधविकथाविरक्तः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥३५॥ प्रेमीया वृत्तिः - नित्यं - सदा, द्वात्रिंशद्दोषविरहितवन्दनदानस्य - द्वात्रिंशद्भिर्दोषैविरहितं वन्दनमिति द्वात्रिंशद्दोषविरहितवन्दनं, तस्य दानमिति द्वात्रिंशद्दोषविरहितवन्दनदानं, तस्य तथा, अधिकारी - योग्यः, तथा चतुर्विधविकथाविरक्तः - चतुर्विधाभिर्विकथाभिर्विरक्तः, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति समासार्थः । ___ व्यासार्थस्त्वयम् - वन्दनं - गुरुवन्दनम् । तस्य द्वात्रिंशद्दोषाः । तद्यथा - १ अनादृतं, २ स्तब्धं, ३ प्रविद्धं, ४ परिपिण्डितं, ५ टोलगति, ६ अङ्कशं, ७ कच्छपरिङ्गितं, ८ मत्स्योद्वृत्तं, ९ मनःप्रदुष्टं, १० वेदिकाबद्धं, ११ भयेन, १२ भजमानमाश्रित्य, १३ मैत्रीनिमित्तं, १४ गौरवनिमित्तं, १५ कारणमाश्रित्य, १६ स्तैन्येन, १७ प्रत्यनीकं, १८ रुष्टं, १९ तर्जितं, २० शठं, २१ हीलितं, २२ विपरिकुञ्चितं, २३ दृष्टादृष्टं, २४ शृङ्ग, २५ करं, २६ करमोचनं, २७ आश्लिष्टानाश्लिष्टं, २८ न्यूनं, २९ उत्तरचूलिकं, ३० मूकं, ३१ ढढरं, ३२ चूडलिकञ्च । यदुक्तमावश्यकनियुक्तौ तद्वृत्ती च
"कतिदोषविप्रमुक्त'मिति यदुक्तं तत्र द्वात्रिंशद्दोषविप्रमुक्तं कर्तव्यं, तद्दोषदर्शनायाह -