SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १००० द्वात्रिंशद्विधा वन्दनदोषाः अणाढियं च थद्धं च, पव्विद्धं परिपिंडियं । टोलगइ अंकुसं चेव, तहा कच्छभरिंगियं ॥१२०७॥ (छाया- अनादृतं च स्तब्धं च, प्रविद्धं परिपिण्डितं । टोलगति अङ्कुशं चैव, तथा कच्छपरिङ्गितम् ॥१२०७॥) वृत्तिः - अनादृतम् अनादरं सम्भ्रमरहितं वन्दते १ स्तब्धं जात्यादिमदस्तब्धो वन्दते २ प्रविद्धं वन्दनकं दददेव नश्यति ३ परिपिण्डितं प्रभूतानेकवन्दनेन वन्दते आवर्तान् व्यञ्जनाभिलापान् वाऽव्यवच्छिन्नान् कुर्वन् ४ टोलगति तिड्डवदुत्प्लुत्य २ विसंस्थुलं वन्दते ५ अङ्कुशं रजोहरणमङ्कुशवत्कद्धयेन गृहीत्वा वन्दते ६ 'कच्छभरिंगियं' कच्छपवत् रिङ्गितं कच्छपवत् रिङ्गन् वन्दत इति गाथार्थः ७ ॥१२०७।। मच्छुव्वत्तं मणसा पउटुं तह य वेइयाबद्धं । भयसा चेव भयंतं, मित्ती गारवकारणा ॥१२०८॥ (छाया- मत्स्योद्वृत्तं मनसा प्रदुष्टं तथा च वेदिकाबद्धम् । भयेन चैव भजमानं मैत्री गौरवकारणात् ॥१२०८।) वृत्तिः - मत्स्योद्वृत्तम् एकं वन्दित्वा मत्स्यवद् द्रुतं द्वितीयं साधुं द्वितीयपाइँन रेचकावर्तेन परावर्तते ८ मनसा प्रदुष्टं, वन्द्यो हीनः केनचिद्गुणेन, तमेव च मनसि कृत्वा सासूयो वन्दते ९ तथा च वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं वा जानुं करद्वयान्तः कृत्वा वन्दते १० 'भयसा चेव'त्ति भयेन वन्दते, मा भूद्गच्छादिभ्यो निर्धाटनमिति ११, 'भयंतं'ति भजमानं वन्दते 'भजत्ययं मामतो भक्तं भजस्वेति तदार्यवृत्तं' इति १२, 'मेत्ति 'त्ति मैत्रीनिमित्तं प्रीतिमिच्छन् वन्दते १३, 'गारवि'त्ति गौरवनिमित्तं वन्दते, विदन्तु मां यथा सामाचारीकुशलोऽयं १४, 'कारण'त्ति ज्ञानादिव्यतिरिक्तं कारणमाश्रित्य वन्दते, वस्त्रादि मे दास्यतीति १५, अयं गाथार्थः ॥१२०८॥ तेणियं पडिणियं चेव, रुटुं तज्जियमेव य। सढं च हीलियं चेव, तहा विपलिउंचियं ॥१२०९॥ (छाया- स्तैन्यं प्रत्यनीकं चैव, रुष्टं तर्जितमेव च । शठं च हीलितं चैव, तथा विपरिकुञ्चितम् ॥१२०९॥) वृत्तिः - स्तैन्यमिति परेभ्यः खल्वात्मानं गृहयन् स्तेनक इव वन्दते, मा मे लाघवं
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy