SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ चतुर्विधा उपसर्गाः ९९५ वृत्तिः - उपसर्जनमुपसर्गः । अथवा, करणसाधनः- उपसृज्यते सम्बध्यते पीडादिभिः सह जीवस्तेनेत्युपसर्ग: । अथवा, कर्मसाधनः- उपसृज्यते सम्बध्यते तकोऽसावेव जीवेन सह यस्मात् तत उपसर्गः । अथवा, उपादानसाधनः- ततस्तस्मादुपसर्गाज्जीव उपसृज्यते सम्बध्यते पीडादिभिः सह यस्मात् तत उपसर्गः । स च देवेभ्यो भवो दिव्यः, मनुष्येभ्यो भवो मानुषः, तिर्यग्योनिभ्यो भवस्तैर्यग्योनः, आत्मना संवेद्यत इत्यात्मसंवेदनीय इत्येवं चतुर्भेद इति ॥३००५॥ केन पुनः कारणेन देवादिभ्यः साधूनामुपसर्गा भवन्ति ? इत्याह हास- प्पओस-वीमंसओ विमायाए वा भवो दिव्वो । एवं चिय माणुस्सो कुसीलपडिसेवणचउत्थे ॥३००६॥ तिरिओ भय- प्पओसा-हारावच्चाइरक्खणत्थं वा । घट्ट-त्थंभण-पवडण- लेसणओ चायसंवेओ ॥३००७॥ (छाया - हास- प्रद्वेष-विमर्शतो विमात्राया वा भवो दिव्यः । एवमेव मानुषः कुशीलप्रतिसेवनचतुर्थः ॥३००६॥ तिर्यङ् भय- प्रद्वेषा - SSहारा -पत्य - नीडरक्षणार्थं वा । घट्ट - स्तम्भन - प्रपतन-लेशनतो चात्मसंवेद्यः ॥३००७||) - वृत्तिः - हासात् क्रीडातः, अवज्ञातपूर्वभवसम्बन्धादिकृतप्रद्वेषाद् वा, 'वीमंसउ' त्ति ‘किमयं स्वप्रतिज्ञातश्चलति नवा ?' इति मीमांसातो विमर्शाद् दिव्य उपसर्गो भवेत् । तथा 'विमायाए' त्ति विविधा मात्रा विमात्रा तस्याः सकाशात् किमपि हास्यात्, किमपि प्रद्वेषात्, किं च मीमांसातश्चेत्यर्थः, दिव्य उपसर्गो भवेदिति । एवं मानुषोऽप्युपसर्गश्चतुर्विधो भवेत् । केवलं 'कुसीलपडिसेवणचउत्थो' त्ति स्त्रीपण्डकलक्षणो यः कुशीलस्तत्प्रतिसेवनामाश्रित्य चतुर्थभेदो द्रष्टव्यः, विमात्रापक्षस्यात्र हास्यादिष्वेवान्तर्भावविवक्षणादिति । तिर्यङ् भयात्, प्रद्वेषात्, आहारार्थम्, अपत्यनीडगुहादिस्थानरक्षणार्थमुपसर्गं कुर्यादिति । आत्मसंवेदनीयस्तूपसर्गो नेत्रपतितकूणिकाद्विघट्टनात्, अङ्गानां वा स्तम्भनात् स्तब्धताभावात्, गर्त्तादौ वा प्रपतनात्, विगुणितबाहवाद्यङ्गानां वा लेशनात् परस्परं श्लेषणाद् भवति । इति सप्तचत्वारिंशद्गाथार्थः ॥३००६|| ||३००७||' गुरुरेतांश्चतुर्विधानुपसर्गान् धीरतया सहते । ततश्च स तान्जयति । इत्थं षट्त्रिंशद्गुणेषुमान्गुरुः कर्मारीन्विजय ||३४|| इति त्रयस्त्रिंशत्तमी षट्त्रिशिका समाप्तिमिता ।
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy