________________
९९४
द्वात्रिंशद्विधा जीवाः वनस्पतिकायिकाः, २२ पर्याप्तप्रत्येकवनस्पतिकायिकाः, २३ अपर्याप्तद्वीन्द्रियाः, २४ पर्याप्तद्वीन्द्रियाः, २५ अपर्याप्तत्रीन्द्रियाः, २६ पर्याप्तत्रीन्द्रियाः, २७ अपर्याप्तचतुरिन्द्रियाः, २८ पर्याप्तचतुरिन्द्रियाः, २९ अपर्याप्तासझिपञ्चेन्द्रियाः, ३० पर्याप्तासज्ञिपञ्चेन्द्रियाः, ३१ अपर्याप्तसज्ञिपञ्चेन्द्रियाः, ३२ पर्याप्तसज्ञिपञ्चेन्द्रियाश्च । यदवाचि प्रवचनसारोद्धारे तद्वत्तौ च -
'सहमियरभूजलानलवाउवणाणंत दस सपत्तेआ।
बितिचउअसन्निसन्नी अपज्जपज्जत्त बत्तीसं ॥१२४३॥ (छाया- सूक्ष्मेतरभूजलानलवायुवनान्ता दश सप्रत्येकाः ।
द्वित्रिचतुरसञ्जिसिझनः अपर्याप्तपर्याप्ताः द्वात्रिंशत् ॥१२४३।।) वृत्तिः पृथिव्यप्तेजोवाय्वनन्तवनस्पतयः पञ्च प्रत्येकं सूक्ष्मबादरभेदतो दश भवन्ति, ते च सप्रत्येकाः-प्रत्येकवनस्पतिसहिता एकादश, द्वित्रिचतुरसज्ञिसज्ञिपञ्चेन्द्रियाश्च पञ्च मिलिताः षोडश, एते च प्रत्येकमपर्याप्तपर्याप्तभेदभिन्ना द्वात्रिंशद्भवन्ति, इयमत्र भावना - पृथिवीकायो द्विधा - सूक्ष्मो बादरश्च, पुनरेकैको द्विधा - अपर्याप्तः पर्याप्तश्चेति चतुर्विधः पृथ्वीकायः, एवं जलानलवायवोऽपि, वनस्पतिर्द्विधा-साधारणः प्रत्येकश्च, तत्र साधारणो द्विधा-सूक्ष्मो बादरश्च, पुनरेकैको द्विधा-अपर्याप्तः पर्याप्तश्च, प्रत्येकस्तु बादर एव, स चापर्याप्तपर्याप्तभेदेन द्विविध इति षोढा वनस्पतिकायः । द्वित्रिचतुरसझिसज्ञिपञ्चेन्द्रियाः पुनः प्रत्येकमपर्याप्त-पर्याप्तभेदतो द्विधा । मिलिताश्च द्वात्रिंशदिति ॥१२४३॥'
गुरुरेतान्द्वात्रिंशद्विधाञ्जीवान्सदा रक्षति ।
उपसर्गा देवादिकृता उपद्रवाः । ते चतुर्विधाः । तद्यथा - १ देवकृतोपसर्गाः, २ मनुष्यकृतोपसर्गाः, ३ तिर्यक्कृतोपसर्गाः, ४ आत्मसंवेदनोपसर्गाः । उक्तञ्च श्रीविशेषावश्यकभाष्ये मलधारिहेमचन्द्रसूरिकृततद्वृत्तौ च - 'अथोपसर्गान् व्याख्यातुमाह -
उवसज्जणमुवसग्गो तेण तओ व उवसज्जए जम्हा ।
सो दिव्व-मणुय-तेरिच्छिया-ऽऽयसंवेयणाभेओ ॥३००५॥ (छाया- उपसर्जनमुपसर्गस्तेन सको वोपसज्यते यस्मात ।
स दिव्य-मानुष-तैर्यग्योन्या-त्मसंवेदनाभेदः ॥३००५॥)