________________
त्रयस्त्रिंशत्तमी षट्त्रिशिका
अथ त्रयस्त्रिंशत्तमीं षट्त्रिशिकामाह
मूलम् - तह बत्तीसविहाणं, जीवाणं रक्खणंमि कचित्तो । जियचउव्विहोवसग्गो, छत्तीसगुणो गुरू जयउ ॥३४॥
-
तथा
छाया तथा द्वात्रिंशद्विधानां जीवानां रक्षणे कृतचित्तः । जितचतुर्विधोपसर्गः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥३४॥ प्रेमीया वृत्तिः पूर्वश्लोकापेक्षयाऽस्य श्लोकस्य समुच्चयार्थं, द्वात्रिंशद्विधानां - द्वात्रिंशत्प्रकाराणां जीवानां प्राणिनां रक्षणे - पालने, कृतचित्तः कृतं-दत्तं चित्तं-मनो येन स कृतचित्तः, तथा जितचतुर्विधोपसर्गः - जिताश्चतुविधा उपसर्गा येन स जितचतुर्विधोपसर्ग:, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति सङ्क्षेपार्थः ।
-
विस्तारार्थस्त्वयम् – “जीव प्राणधारणे' अजीवन् जीवन्ति जीविष्यन्त्यायुयोगेनेति निरुक्तवशाज्जीवाः ।' इति जीवानां व्याख्या कृता रत्नविजयैर्जीवविचारवृत्तौ । ते च जीवा द्वात्रिंशद्विधाः । तद्यथा १ अपर्याप्तसूक्ष्मपृथ्वीकायिकाः, २ पर्याप्तसूक्ष्मपृथ्वीकायिकाः, ३ अपर्याप्तबादरपृथ्वीकायिकाः ४, पर्याप्तबादरपृथ्वीकायिकाः, ५ अपर्याप्तसूक्ष्माप्कायिकाः, ६ पर्याप्तसूक्ष्माप्कायिकाः, ७ अपर्याप्तबादराप्कायिकाः, ८ पर्याप्तबादराप्कायिकाः, ९ अपर्याप्तसूक्ष्मतेजस्कायिकाः, १० पर्याप्तसूक्ष्मतेजस्कायिकाः, ११ अपर्याप्तबादरतेजस्कायिकाः, १२ पर्याप्तबादरतेजस्कायिकाः, १३ अपर्याप्तसूक्ष्मवायुकायिकाः, १४ पर्याप्तसूक्ष्मवायुकायिकाः, १५ अपर्याप्तबादरवायुकायिकाः, १६ पर्याप्तबादरवायुकायिकाः, १७ अपर्याप्तसूक्ष्मानन्तवनस्पतिकायिकाः, १८ पर्याप्तसूक्ष्मानन्तवनस्पतिकायिकाः, १९ अपर्याप्तबादरानन्तवनस्पतिकायिकाः, २० पर्याप्तबादरानन्तवनस्पतिकायिकाः, २१ अपर्याप्तप्रत्येक