________________
९८६
पञ्चविधं ज्ञानम् (छाया- आवरणदेशविगमे यान्यपि जायन्ते मतिश्रुतादीनि ।
सर्वावरणविगमे कथं तानि न भवन्ति जीवस्य ? ॥१॥) उच्यते, इह यथा जात्यस्य मरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद्यथा यथा देशतो मलविलयः तथा तथा देशतोऽभिव्यक्तिरुपजायते, सा च क्वचित्कदाचित् कथञ्चित् भवतीत्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणैकपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्वरूपस्य यावत् नाद्यापि निखिलकर्ममलापगमः तावद्यथा यथा देशतः कर्ममलोच्छेदः तथा तथा देशतः तस्य विज्ञप्तिरुज्जृम्भते, सा च क्वचित्कदाचित्कथञ्चिदित्यनेकप्रकारा, उक्तं च -
'मलविद्धमणेर्व्यक्तिर्यथाऽनेकप्रकारतः ।
कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः ॥१॥' सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो नि:शेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेनैकरूपा अतिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुल्लसति, तथा चोक्तम् -
'यथा जात्यस्य रत्नस्य, निःशेषमलहानितः ।
स्फुटकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः ॥१॥' ततो मत्यादिनिरपेक्षं केवलज्ञानं, अथवा शुद्धं केवलं, तदावरणमलकलङ्कस्य निःशेषतोऽपगमात्, सकलं वा केवलं, प्रथमत एवाशेषतदावरणापगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलमनन्यसदृशत्वात्, अनन्तं वा केवलं ज्ञेयानन्तत्वात्, केवलं च तज्ज्ञानं च केवलज्ञानम् ।५।'
गुरुरेतेषां पञ्चानां ज्ञानानां स्वरूपं सम्यक्प्रतिपादयति । इत्येवं षट्त्रिंशद्गुणगणान्वितो गुरुर्जगतोऽज्ञानं हन्तु ॥३३॥
इति द्वात्रिंशत्तमी षट्विशिका समाप्तिमगमत् ।