________________
पञ्चविधं ज्ञानम्
९८५ दाप्तं प्राज्ञाप्तं गणधरैरिति गम्यते, अथवा प्राज्ञैः-गणधरैराप्तं प्राज्ञाप्तं, तीर्थकरादित्यनुमीयते, तद्यथेत्युदाहरणोपदर्शनार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानं अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं, तत्रार्थाभिमुखो नियतः- प्रतिनियतस्वरूपो बोधो-बोधविशेषोऽभिनिबोधः (अभिनिबोध) एवाभिनिबोधकं, अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमाद् "विनयादिभ्य' इत्यनेन स्वार्थे इकण्प्रत्ययः 'अतिवर्त्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानी'ति वचनात् अत्र नपुंसकता, यथा विनय एव वैनयिकमित्यत्र, अथवा अभिनिबुध्यते अनेनास्मादस्मिन् वेति अभिनिबोध:-तदावरणकर्मक्षयोपशमः, तेन निर्वृत्तमाभिनिबोधिकं, आभिनिबोधिकं च तद् ज्ञानं च आभिनिबोधिकज्ञानं-इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः १, तथा श्रवणं श्रुतं वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थं घटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानं २, तथा अवशब्दोऽधःशब्दार्थः, अव-अधोऽधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः, अथवा अवधिर्मयादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः यद्वा अवधानम्-आत्मनोऽर्थसाक्षात्करणव्यापारोऽवधिः, अवधिश्चासौ ज्ञानं चावधिज्ञानं ३, तथा परि:-सर्वतो भावे अवनं अव: 'तुदादिभ्यो न क्वा'वित्यधिकारे 'अकतौ चे'त्यनेनौणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवः मनःपर्यवः-सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः, अथवा मनःपर्यय इति पाठः, तत्र पर्ययणं पर्ययः, भावेऽल् प्रत्ययः, मनसि मनसो वा पर्ययो मनःपर्ययः, सर्वतस्तत्परिच्छेद इत्यर्थः, स चासौ ज्ञानं च मनःपर्ययज्ञानं, अथवा मनःपर्यायज्ञानमिति पाठः, ततः मनांसि मनोद्रव्याणि पर्येति-सर्वात्मना परिच्छिनत्ति मनःपर्यायं, 'कर्मणोऽणि ति अण्प्रत्ययः, मनःपर्यायं च तज्ज्ञानं च मनःपर्यायं(यज्ञान), यद्वा मनसः पर्यायाः मनःपर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यर्थः, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं ४, तथा केवलम् - एकमसहायं मत्यादिज्ञाननिरपेक्षत्वात् केवलज्ञानप्रादुर्भावे मत्यादीनामसम्भवात्, ननु कथमसम्भवो यावता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमेऽपि प्रादुष्यन्ति, ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत्, उक्तं च -
'आवरणदेसविगमे जाइवि जायंति मइसुयाईणि । आवरणसव्वविगमे कह ताइ न होति जीवस्स ? ॥'