SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ पञ्चविधं ज्ञानम् वधिनारूपिद्रव्यग्रहणात्मकेन ज्ञानमवधिज्ञानं - इन्द्रियमनोनिरपेक्षं आत्मनः साक्षाद्रूपिवस्तुग्रहणात्मको बोध इति भावः, सञ्ज्ञिभिर्जीवैः काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि वस्तुचिन्ताप्रवर्त्तकानि द्रव्याणि मनांसीत्युच्यन्ते तानि पर्येतिअवगच्छतीति मनःपर्यायमिति कर्म्मण्यण्, तच्च तज्ज्ञानं च मनःपर्यायज्ञानं - अर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्तिसञ्ज्ञिजीवचिन्तितार्थप्रकटनपरं इन्द्रियमनोनिरपेक्षः आत्मनः साक्षात् प्रवृत्तो बोध एवेति हृदयम्, केवलं-सम्पूर्णज्ञेयग्राहित्वात् सम्पूर्णम् तच्च ज्ञानं च केवलज्ञानं रूप्यरूपिसमस्तवस्तुग्राहकं पञ्चमज्ञानमिति गाथासमासार्थः, व्यासार्थस्त्ववश्यकादिभ्योऽवसेय इति ॥१७॥ ९८४ नन्दिसूत्रे तद्वृत्तौ च ज्ञानपञ्चकस्य स्वरूपमेवं प्रतिपादितम् 'नाणं पंचविहं पन्नत्तं, तंजहा - आभिणिबोहिअनाणं सुअनाणं ओहिनाणं मणपज्जवनाणं केवलनाणं ॥ (छाया- ज्ञानं पञ्चविधं प्रज्ञप्तं, तद्यथा - आभिनिबोधिकज्ञानं श्रुतज्ञानं अवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानम् ॥) वृत्तिः - ज्ञातिर्ज्ञानं, भावे अनट्प्रत्ययः, अथवा ज्ञायते - वस्तु परिच्छिद्यते अनेनेति ज्ञानं, करणे अनट्, शेषास्तु व्युत्पत्तयो मन्दमतीनां सम्मोहहेतुत्वात् नोपदिश्यन्ते, 'पञ्चे 'ति सङ्ख्यावाचकं विधानं विधा 'उपसर्गादात' इत्यड् प्रत्ययः, पञ्च विधा: - प्रकारा यस्य तत्पञ्चविधं-पञ्चप्रकारं प्रज्ञप्तं प्ररूपितं तीर्थकरगणधरैरिति सामर्थ्यादवसीयते, अन्यस्य स्वयंप्ररूपकत्वेन प्ररूपणाऽसम्भवात्, उक्तं च - 'अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हिट्टाए तओ सुत्तं पवत्तइ ॥१॥ (छाया - अर्थं भाषतेऽर्हन् सूत्रं ग्रथ्नन्ति गणधरा निपुणम् । शासनस्य हितार्थाय ततः सूत्रं प्रवर्त्तते ॥१॥ ) एतेन स्वमनीषिकाव्युदासमाह, अथवा प्रज्ञा - बुद्धिः तया आप्तं प्राप्तं तीर्थकर - गणधरैरिति गम्यते, प्रज्ञाप्तं किमुक्तं भवति ? 'सर्वं वाक्यं सावधारणं भवतीति' न्यायात् अवश्यमिदं वाक्यमवधारणीयं, ततोऽयमर्थः - ज्ञानं तीर्थकरैरपि सकलकालावलम्बिसमस्तवस्तुस्तोमसाक्षात्कारिकेवलप्रज्ञया पञ्चविधमेव प्राप्तं, गणधरैरपि तीर्थकृद्भिरुपदिश्यमानं निजप्रज्ञया पञ्चविधमेव प्राप्तं, न तु वक्ष्यमाणनीत्या द्विभेदमेवेति, अथवा प्राज्ञात्- - तीर्थकरा
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy