________________
पञ्चविधं ज्ञानम्
९८३ क्षीणोपभोगान्तरायः, ३१ क्षीणवीर्यान्तरायश्च । उक्तञ्च आवश्यकसूत्रवृत्तौ - 'प्रकारान्तरेण सिद्धादिगुणान् प्रदर्शयन्नाह -
अहवा कंमे णव दरिसणंमि चत्तारि आउए पंच ।
आइम अंते सेसे दो दो खीणभिलावेण इगतीसं ॥१॥ (छाया- अथवा कर्मणि नव दर्शने चत्वार आयुष्के पञ्च ।
आदिमे अन्त्ये शेषे द्वौ द्वौ क्षीणाभिलापेन एकत्रिंशत् ॥१॥) वृत्तिः - अथवेति व्याख्यान्तरप्रदर्शनार्थः, कर्मणि कर्मविषयाः क्षीणाभिलापेनैकत्रिंशद्गुणा भवन्ति, तत्र नव दर्शनावरणीये, नवभेदा इति-क्षीणचक्षुर्दर्शनावरणः ४ क्षीणनिद्रः ५, चत्वार आयुष्के-क्षीणनरकायुष्कः ४ 'पंच आइमे 'त्ति आद्ये ज्ञानावरणीयाख्ये कर्मणि पञ्च क्षीणाभिनिबोधिकज्ञानवरणः ५ 'अंते 'त्ति अन्त्ये-अन्तराये कर्मणि पञ्चैव क्षीणदानान्तरायः ५ शेषकर्मणि-वेदनीयमोहनीयनामगोत्रलक्षणे द्वौ द्वौ भेदौ भवतः, क्षीणसातावेदनीयः क्षीणासातावेदनीयः क्षीणदर्शनमोहनीयः क्षीणचारित्रमोहनीयः क्षीणाशुभनामा . क्षीणशुभनामा क्षीणनीचैर्गोत्रः क्षीणोच्चैर्गोत्र इति गाथार्थः ॥१॥'
गुरुरेतेषामेकत्रिंशतः सिद्धगुणानां स्वरूपं सम्यक् प्रतिपादयति ।
ज्ञायतेऽनेनेति ज्ञानम् । तत् पञ्चविधम् । तद्यथा - १ आभिनिबोधिकज्ञानं, २ श्रुतज्ञानं, ३ अवधिज्ञानं, ४ मनःपर्यवज्ञानं, ५ केवलज्ञानञ्च । उक्तञ्च पुष्पमालायां तद्वृत्तौ च -
'आभिनिबोहियनाणं, सुयनाणं चेव ओहिनाणं च ।
तह मणपज्जवनाणं, केवलनाणं च पंचमयं ॥१७॥ (छाया- आभिनिबोधिकज्ञानं, श्रुतज्ञानं चैव अवधिज्ञानं च ।
तथा मनःपर्यवज्ञानं, केवलज्ञानं च पञ्चमकम् ॥१७॥) वृत्तिः - 'अभि' इत्याभिमुख्ये 'नि' इति नैयत्ये, ततश्चाभिमुखो वस्तूनां ग्रहणयोग्यनियतदेशावस्थानापेक्षी नियत इन्द्रियाण्याश्रित्य स्वस्वविषयग्रहणपरिणतो बोधोऽभिनिबोधः स एवाभिनिबोधिकः, तच्च तत् ज्ञानं च आभिनिबोधिकज्ञानं, इन्द्रियपञ्चकमनोनिमित्तो वस्त्ववबोधविशेष इत्यर्थः, श्रवणं श्रुतं-अभिलापप्लावितार्थोपलब्धिविशेषः, तच्च तज्ज्ञानं च इन्द्रियपञ्चकमनोनिमित्त एवाभिलापारुषितो बोध एवेत्यर्थः, अवधिः मर्यादा तेना