________________
९८२
एकत्रिंशद्विधाः सिद्धगुणाः तानेवोपदर्शयन्नाह सङ्ग्रहणिकारः -
पडिसेहेण संठाणवण्णगंधरसफासवेए य ।
पणपणदुपण?तिहा इगतीसमकायसंगरुहा ॥१॥ (छाया- प्रतिषेधेन संस्थानवर्णगन्धरसस्पर्शवेदानां च ।
पञ्चपञ्चद्विपञ्चाष्टत्रिधा एकत्रिंशदकायासङ्गारुहः ॥१॥) वृत्तिः - प्रतिषेधेन संस्थानवर्णगन्धरसस्पर्शवेदानां, कियढ़ेदानां ? पञ्चपञ्चद्विपञ्चाष्टत्रिभेदानामिति, किम् ?-एकत्रिंशत्सिद्धादिगुणा भवन्ति, 'अकायसंगरुह'त्ति अकायः-अशरीरः असङ्गः-सङ्गवजितः अरुहः-अजन्मा, एभिः सहैकत्रिंशद्भवन्ति, तथा चोक्तं -
‘से ण दीहे ण हस्से ण वट्टे न तंसे न चउरंसे न परिमंडले ५ न किण्हे न नीले न लोहिए न हालिद्दे न सुक्किले ५ न सुब्भिगंधे न दुब्भिगंधे २ न तित्ते न कडुए न कसाए न अंबिले न महुरे ५ न कक्खडे न मउए न गुरुए न लहुए न सीए न उण्हे न निद्धे न लुक्खे न काए ण संगे न रुहे न इत्थी न पुरिसे न नपुंसए ।' (आचाराङ्गसूत्रम्)।'
(छाया- स न दीर्घः न इस्वो न वृत्तो न त्र्यस्रो न चतुरस्रो न परिमण्डलो न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो न सुरभिगन्धो न दुरभिगन्धो न तिक्तो न कटुको न कषायो नाम्लो न मधुरो न कर्कशो न मृदुर्न गुरुर्न लघुर्न शीतो नोष्णो न स्निग्धो न रूक्षो न कायवान् न सङ्गवान् न रुहो न स्त्री न पुरुषो न नपुंसकम् ।)
अथवा प्रकारान्तरेणैकत्रिंशत्सिद्धगुणा एवं ज्ञेयाः - १ क्षीणमतिज्ञानावरणः, २ क्षीणश्रुतज्ञानावरणः, ३ क्षीणावधिज्ञानावरणः, ४ क्षीणमनःपर्यवज्ञानावरणः, ५ क्षीणकेवलज्ञानावरणः, ६ क्षीणचक्षुर्दर्शनावरणः, ७ क्षीणाचक्षुर्दर्शनावरणः, ८ क्षीणावधिदर्शनावरणः, ९ क्षीणकेवलदर्शनावरणः, १० क्षीणनिद्रः, ११ क्षीणनिद्रानिद्रः, १२ क्षीणप्रचलः, १३ क्षीणप्रचलाप्रचलः, १४ क्षीणस्त्यानगृद्धिः, १५ क्षीणसातावेदनीयः, १६ क्षीणासातावेदनीयः, १७ क्षीणदर्शनमोहनीयः, १८ क्षीणचारित्रमोहनीयः, १९ क्षीणनरकायुष्कः, २० क्षीणतिर्यगायुष्कः, २१ क्षीणमनुष्यायुष्कः, २२ क्षीणदेवायुष्कः, २३ क्षीणशुभनामा, २४ क्षीणाशुभनामा, २५ क्षीणोच्चगोत्रः, २६ क्षीणनीचगोत्रः, २७ क्षीणदानान्तरायः २८ क्षीणलाभान्तरायः, २९ क्षीणभोगान्तरायः, ३०