________________
षड्विधा अन्तरङ्गारयः
९७५ निकृतिः-अन्यथाकरणलक्षणा माया उपधिः तां करोति येन तत् प्रच्छायेत अन्यथाकृतं प्रणिधिः एवम्भूत एव (च)रति, अनेन प्रकारेण 'पलिउंचइ' वञ्चयति इति भणितं भवति १९, सातियोगयुक्तश्च-अशुभमनोयोगयुक्तश्च २०, ब्रविति भणति सर्वां मृषां वदति सभायां २१, 'अक्खीणझंझए सया' अक्षीणकलह इत्यर्थः झंझा-कलहः २२, अध्वनि पथि प्रवेश्य नीत्वा विश्रभ्य यो धनं सुवर्णादि हरति प्राणिनां आक्षिपति २३, जीवानां विश्रभ्य-उपायेन केनचित् अतुलां प्रीतिं कृत्वा पुनदरिषु-कलत्रे तस्यैव येन समं प्रीतिः कृता तत्र लुभ्यति २४, अभिक्ष्णं पुनः २ अकुमारे सति कुमारेऽहमिति भाषते २५, एवमब्रह्मचारिणि विभाषा २७, येनैवैश्वर्यं नीतः-ऐश्वर्यं प्रापित इत्यर्थः, वित्ते धने तस्यैव सत्के लुभ्यति २७ तत्प्रभावोत्थिते वापि-लोकसम्मतत्वं प्राप्ते तस्यैव केनचित् प्रकारेण अन्तरायं करोति २८ सेनापति राजानुज्ञातं वा चातुरन्तस्वामिनं प्रशास्तारं - लेखाचार्यादि भद्रं वा विहिनस्ति राष्ट्रस्य वापि निगमस्य यथासङ्ख्यं नायकं श्रेष्ठिनमेव वा, निगमः वणिक्सङ्घातः २९, अपश्यन् मायास्थानेन पश्यामि अहं देवानिति वा वदेत् अवर्णेन च देवानां यथा किं तैः कामगर्दभैः ये अस्माकं नोपकुर्वन्ति महामोहं प्रकरोति कलुषितचित्तत्वात् ३० । अयमधिकृतगाथानामर्थः ।)
गुरुरेतानि त्रिंशत् महामोहबन्धस्थानानि लोके निवारयति - तेषां स्वरूपं प्रदर्श्य जनांस्तन्निवारणार्थं प्रेरयतीत्यर्थः ।
अरयः- शत्रवः । अन्तर्भवा इति आन्तराः अन्तरङ्गा इत्यर्थः । आन्तराश्च तेऽरयश्चेत्यान्तरारयः भावशत्रव इत्यर्थः । ते षड्विधाः । तद्यथा - १ कामः, २ क्रोधः, ३ लोभः, ४ हर्षः, ५ मानः, ६ मदश्च । यदवाचि संवेगरङ्गशालायाम् -
'कामो कोहो लोहो, हरिसो माणो मओ य इयरूवं ।
दरियाऽरिछक्कमन्तर-मऽलद्धपसरं सया कुज्जा ॥२२१४॥' (छाया- कामः क्रोधो लोभो, हर्षो मानो मदश्चैतद्रूपम् ।
दृप्तारिषट्कमान्तरमलब्धप्रसरं सदा कुर्यात् ॥२२१४॥) एतेषां षण्णामान्तरारीणां स्वरूपमेवं प्रदर्शितं योगशास्त्रवृत्तौ -
'तथा अन्तरङ्गश्चासावरिषड्वर्गस्तस्य परिहारोऽनासेवनं तत्र परायणस्तत्परः । तत्रायुक्तितः प्रयुक्ताः कामक्रोधलोभमानमदहर्षाः शिष्टगृहस्थानामन्तरङ्गोऽरिषड्वर्गः । तत्र