________________
९७४
त्रिंशद् मोहनीयबन्धस्थानानि प्रतिचरति स धन्य उताहो यो युष्मान् दर्शनेन प्रतिपद्यते ?, गौतम ! यो ग्लानं प्रतिचरति, तत् केनार्थेन भदन्तैवमुच्यते ?, गौतम ! यो ग्लानं प्रचितरति स मां दर्शनेन प्रतिपद्यते, यो मां दर्शनेन प्रतिपद्यते स ग्लानं प्रतिचरतीति, आज्ञाकरणसारमेवार्हतां दर्शनं, तदेतेनार्थेन गौतमैवमुच्यते-यो ग्लानं प्रतिचरति स मां प्रतिपद्यते यो मां प्रतिपद्यते स ग्लानं प्रतिचरति । इत्यादि ६, तथा साधु तपस्विनं आक्रम्य-बलात्कारेण धर्मात् - श्रुतचारित्रभेदात् यो महामोहपरिणामो भ्रश्यतीति - विनिवारयति उपस्थितं - सामीप्येन स्थितं ७ 'नेयाउयस्स' - नयनशीलस्य मार्गस्य - ज्ञानादिलक्षणस्य दूषणप्रकारेण आत्मानं परं च विपरिणामयन् अपकारे वर्तते, ज्ञाने-'काया व्रतानि च तान्येव' एवमादिना, दर्शने 'एते जीवा अनन्ताः कथमसङ्ख्येयप्रदेशे लोके तिष्ठेयुः ?' एवमादिना, चारित्रे 'जीवबहुत्वात् कथमहिंसकत्वमिति चरणाभावः' इत्यादि । ८, तथा जिनानां - तीर्थकराणां अन्तज्ञानिनां - केवलिनां अवर्णं - निन्दा यो महाघोरपरिणामः प्रभाषते भणति
अद्यापि धावति ज्ञानमद्यापि लोकोऽनन्तको भवति ।
अद्यापि न तव कोऽपि प्राप्नोति सर्वज्ञतां जीवः ॥१॥ एवमादि प्रभाषते, न पुनर्जानाति यथा
क्षीणावरणो युगपद् लोकमलोकं जिनः प्रकाशयति ।
व्यपगतघनपटल इव परिमितं देशमादित्यः ॥१॥ आचार्योपाध्यायौ प्रसिद्धौ खिसति निन्दति जात्यादिभिः, अबहुश्रुता वा एते तथापि अस्माभिरपि एतेषां तु सकाशे किमपि कथञ्चित् अवधारितमिति मन्दबुद्धिः बाल इति भणितं भवति १०, तेषामेव य आचार्योपाध्यायानां परमबन्धूनां परमोपकारीणां ज्ञानिनामिति गुणोपलक्षणं गुणैः प्रभावितः पुनस्तेषामेव कार्ये समुत्पन्ने सम्यग् न 'पडितप्पइ' आहारोपकरणादिभिः नोपयुज्यते ११, पुनः पुनरिति असकृत् अधिगरणं ज्योतिषादि उप्पाए कथयति नृपयात्रादि तीर्थभेदकं ज्ञानादिमार्गविराधनार्थमिति भणितं भवति १२, जानन् अधार्मिकान् योगान् - वशीकरणादिलक्षणान् प्रयुङ्क्ते पुनः पुनः असकृदिति १३, कामे इच्छामदनभेदभिन्ने वान्त्वा त्यक्त्वा, प्रव्रज्यामभ्युपगम्य प्रार्थयति अभिलषति इहभविकान्-मानुष्यान् एव अन्यभविकान् - दिव्यान् १४, अभीक्ष्णं २ पुनः २ बहुश्रुतोऽहमिति यो भाषते, अबहुश्रुतो (बहुश्रुतेन) अन्येन वा पृष्टः स त्वं बहुश्रुतः ? आममिति भणति तुष्णिको वा आस्ते, साधव एव बहुश्रुता इति भणति १५, अतपस्वी तपस्वीति विभाषा १६, जाततेजसा अग्निना बहुजनं गृहे क्षिप्त्वा अन्तो धूमेन अभ्यन्तरे धूमं कृत्वा हिनस्ति १७, अकृत्यं प्राणातिपातादि आत्मना कृत्वा कृतमेतेन भाषते - अन्यस्य आलं ददाति १८, 'नियडुवहिपणिहीए पलिउंचइ'