SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ एकत्रिंशत्तमी षट्विशिका अथैकत्रिंशत्तमी षट्त्रिंशिकामाहमूलम् - महमोहबंधठाणे, तीसं तह अंतरारिछक्कं च । लोए निवारयंतो, छत्तीसगुणो गुरू जयउ ॥३२॥ छाया - महामोहबन्धस्थानानि त्रिंशत् तथा आन्तरारिषट्कञ्च । लोके निवारयन्, षट्त्रिंशद्गुणो गुरुर्जयतु ॥३२॥ प्रेमीया वृत्तिः - तथा - पूर्वश्लोकापेक्षयाऽस्य श्लोकस्य समुच्चयार्थं, लोके - जने, त्रिंशत् - त्रिंशत्सङ्ख्यानि, महामोहबन्धस्थानानि - महान्ति मोहनीयकर्मबन्धस्थानानि, आन्तरारिषट्कं - अन्तरङ्गानां शत्रूणां षट्कं, चः समुच्चये, निवारयन् - निषेधयन्, इति षट्त्रिंशद्गुणो गुरुर्जयत्वित्यक्षरगमनिका । उपनिषदर्थस्त्वयम् - येन जीवाः सदसद्विवेकविकला भवन्ति स मोहःमोहनीयकर्म इत्यर्थः । अतिसङ्क्लिष्टपरिणामहेतुत्वात् महांश्चासौ मोह इति महामोहः । तस्य बन्धः - आत्मना सह क्षीरनीरवद् परस्परं सम्बन्ध इति महामोहबन्धः । तस्य स्थानानि निमित्तानीति महामोहबन्धस्थानानि । तानि त्रिंशत्सङ्ख्यानि । यदुक्तं श्रमणप्रतिक्रमणसूत्रे - 'तीसाए मोहणियठाणेहिं ।' आवश्यकसूत्रवृत्तावस्य व्याख्यैवं कृता - "त्रिंशद्भिर्मोहनीयस्थानैः, क्रिया पूर्ववत्, सामान्येनैकप्रकृतिकर्म मोहनीयमुच्यते, उक्तं च 'अट्ठविहंपि य कम्मं भणियं मोहोत्ति जं समासेण'मित्यादि, (छाया- अष्टविधमपि च कर्म भणितं मोह इति यत् समासेन ।)
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy