________________
९६३
सप्तविधाः शोधिगुणाः
यत् जायते निःशल्यः, नियमात् आलोचयित्वा यतिसार्थः । न अन्यथा इति तस्मात्, निःशल्यत्वं गुणस्तस्याः ॥५०१४॥ न खलु शुध्यति सशल्यः, यथा भणितं शासने धुतरजसाम् । उद्धृतसर्वशल्यः, शुध्यति जीवो धुतक्लेशः ॥५०१५।। तत उद्धरन्ति गौरव-रहिता मूलं पुनर्भवलतानाम् । मिथ्यादर्शनशल्यं, मायाशल्यं निदानञ्च ॥५०१६॥ उद्धृतसर्वशल्यः, अलोचितनिन्दितो गुरुसकाशे । भवति अतिरेकलघुकः, अपहृतभरः इव भारवाहः ॥५०१७।। आलोचनागुणाः खलु, इति एवं वर्णिताः समासेन ।
अतः यथा दातव्या, तथा वक्ष्यामि तत्रेयं मर्यादा ॥५०१८॥) अत्र यद्यप्याजवशोधीति द्वौ गुणौ विवक्ष्य शोधिगुणा अष्टौ प्रतिपादिताः, तथापि गुरुगुणषट्त्रिंशत्षट्विशिकाकुलकस्यैकत्रिंशत्तमवृत्ते शोधिगुणाः सप्त प्रतिपादिता अतोऽस्माभिराजवशोधीति सम्मिल्यैक एव गुणो विवक्षितः । स्वोपज्ञटीकायां तु 'अज्जवं सोही' (आर्जवशोधी) इत्यस्य स्थाने 'अज्झवसोही' (अध्यात्मशुद्धिः) इत्युक्त्वा सप्त शोधिगुणाः प्रतिपादिताः । सर्वत्र भावार्थस्त्वेक एव ।
गुरुरेतान्सप्तविधान् शोधिगुणान् सम्यग् जानाति । इत्थं षट्त्रिंशद्गुणसमन्वितो गुरुर्जीवानां प्रायश्चित्तदानेन विशुद्धिं तनोतु ॥३१॥
इति त्रिंशत्तमी षट्त्रिशिका समाप्ता ।
किं सुरगिरिणो गरुयं, जलनिहिणो किं व हुज्ज गंभीरं । किं गयणाओ विसालं, को य अहिंसा समो धम्मो ॥
મેરુપર્વત કરતા વધુ ઊંચું શું છે? સમુદ્ર કરવા વધુ ગંભીર શું છે? આકાશ કરતા વિશાળ શું છે? અહિંસાની સમાન કયો ધર્મ છે?