________________
९६२
सप्तविधाः शोधिगुणाः आलोचनया आर्जव-शोधी परमनिवृत्तिकारिण्यौ । भवभयनिवारिण्यौ, प्रज्ञप्ते वीतरागैः ॥५००२।। शोधिः ऋजुभूतस्य, धर्मः शुद्धस्य तिष्ठति । निर्वाणं परमं याति, घृतसिक्त इव पावकः ॥५००३॥ निकृतिक्लिष्टचित्तो, बध्नाति कर्म क्लिष्टमेव बहु । जीवः प्रमादबहुलः, क्लिष्टकर्मणः स निदानम् ॥५००४॥ अतिसङ्क्लिष्टकर्माणु-वेदने यस्तु भवति परिणामः । स सङ्क्लिष्टकर्मणः, कारणं यदिह प्रायेण ॥५००५॥ ततश्च भवविवृद्धिः, ततश्च दुःखानि अनेकभेदानि । इति सङ्क्लेशमूलं, निकृतिरेव भवति ज्ञातव्या ॥५००६।। उन्मूलनेन तस्याः, सञ्जायते आर्जवं यतस्तेन । आलोचना दातव्या, शोधिनिमित्तं च जीवस्य ॥५००७॥ दुष्करकरणं च इदं, यत् सेव्यते सुखं प्रमादेन । दुःखं आलोच्यते, यथास्थितं कर्मदोषतः ॥५००८॥ लज्जाअभिमानादि-महाबलान् अनेकभवशताभ्यस्तान् । विकटयन्ति ये अगणयित्वा, ते दुष्करकारकाः लोके ॥५००९॥ प्राप्नुवन्ति अपि ते एव च, अकलङ्काराधनां महासत्त्वाः । भवशतविपाकमथनीं, ये आलोचयन्ति इति सम्यक् ॥५०१०॥ तीर्थकराऽऽज्ञापालन-गुरुजनविनयश्च सेवितो भवति ।
आलोचनाप्रदाने, सम्यक् ज्ञानादिविनयश्च ॥५०११।। विनयः शासने मूलं, विनीतः संयतः भवेत् । विनयात् विप्रमुक्तस्य, कुतो धर्मः कुतस्तपः ॥५०१२॥ यस्मात् विनयति कर्म, अष्टविधं चतुरन्तमोक्षाय । तस्मात्तु वदन्ति विदः, विनय इति विलीनसंसाराः ॥५०१३॥