SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ९६१ सप्तविधाः शोधिगुणाः (छाया- आलोचनाअदाने, दोषा इति वर्णिताः समासेन । वक्ष्यामि अत ऊर्ध्वं, ये तु गुणा भवन्ति दाने ॥४९९०॥ लघुता लादिजननं, आत्मपरनिवृत्तिः आर्जवं शोधिः । दुष्करकरणं विनयः, निःशल्यत्वं च शोधिगुणाः ॥४९९१॥ इह कर्मचयो भारो, भनक्ति जीवः स येन अत्यन्तम् । भग्ना च तेन शिवगति-गमने न प्रत्यला भवन्ति ॥४९९२॥ विकटयतस्तु दोषान्, असङ्क्लिष्टस्य शुद्धभावस्य । स परिहीयते बहुशः, पूर्वचितः कर्मगुरुभारः ॥४९९३॥ तथा भावतश्च गुरुकी, चारित्रगुणानाश्रित्य जीवानाम् । शिवगतिकारणभूता, जायते परमार्थतो लघुता ॥४९९४॥ यथा यथा शुद्धस्वभावः, दोषान् विकटयति सम्यगुपयुक्तः । तथा तथा प्रह्लादयति मुनिः, नवनवसंवेगश्रद्धातः ॥४९९५॥ प्राप्तो मया सुवैद्यो, दुर्लभ एष यः भावव्याधौ । लज्जादिका च तुच्छा, व्याधेः विवर्धका घोराः ॥४९९६॥ ततः विकटयित्वा सम्यग्, अस्य चरणान्तिके धन्यस्य । करिष्यामि अप्रमत्तः, भवदुःखनिवारणिं क्रियाम् ॥४९९७।। तथा विकटिते च ह्लादिः, उत्पद्यते एव शुद्धभावस्य । धन्योऽहं भवगहने, येन मया शोधितः आत्मा ॥४९९८॥ न करोति अतोऽपराधान्, लज्जातः अकृत्यानाम् । प्रायश्चित्तभयेन च, निवर्तित एवमात्मा तु ॥४९९९॥ दृष्ट्वा तं सुसाधु, एव यतन्तं परेऽपि भयभीताः । न कुर्वन्ति अकृत्यानि सेवन्ते च नवरं कृत्यानि ॥५०००॥ आत्मपरनिवृत्त्या, एवं स्वपरोपकारभावस्तु । न च स्वपरोपकारात्, महत्तरत् गुणस्थानम् ॥५००१॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy