SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ९५७ एकोनत्रिंशद्विधानि पापश्रुतानि सुत्तं वित्ती तह वत्तियं च पावसुय अउणतीसविहं । गन्धव्वनट्टवत्थु आउं धणुवेयसंजुत्तं ॥२॥' (छाया- अष्टौ निमित्ताङ्गानि दिव्योत्पातान्तरिक्षभौमं च । अङ्गं स्वरव्यञ्जनलक्षणं च त्रिविधं पुनरेकैकम् ॥१॥ सूत्रं वृत्तिः तथा वात्तिकं च पापश्रुतं एकोनत्रिंशद्विधम् । गान्धर्वनाट्यवास्तुआयुर्धनुर्वेदसंयुक्तम् ॥२॥) अष्टनिमित्ताङ्गानि-दिव्यं व्यन्तराट्टहासादिविषयं १। उत्पातं रुधिरवृष्ट्यादिविषयं २। अन्तरिक्षं ग्रहभेदादिविषयं ३। भौमं भूमिविकारदर्शनादेवास्य इदं भविष्यतीत्यादिविषयं ४। अङ्गमङ्गविषयं ५। स्वरं स्वरविषयं ६। व्यञ्जनं मषादि तद्विषयं ७ लक्षणं लाञ्छनं रेखादिविषयं ८। पुनर्दिव्याघेकैकं त्रिविधं सूत्रं वृत्तिर्वार्तिकं चेत्येवमष्टौ त्रिगुणाश्चतुर्विंशति-र्भेदास्तथा गन्धवं नाट्यं वास्तु आयुर्विद्या वैद्यकं धनुर्वेदश्चेत्येकोनत्रिंशत् ।' आवश्यकसूत्रवृत्तावप्युक्तम् - ‘एकोनत्रिंशद्भिः पापश्रुतप्रसङ्गैः, क्रिया पूर्ववत्, पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गाः-तथाऽऽसेवनारूपा इति, पापश्रुतानि दर्शयन्नाह सङ्ग्रहणिकारः - 'अट्ठनिमित्तंगाई दिव्वुप्पायंतलिक्खभोमं च । अंगसरलक्खणवंजणं च तिविहं पुणोक्केक्कं ॥१॥ सुत्तं वित्ती तह वत्तियं च पावसुय अउणतीसविहं । गंधव्वनट्टवत्थु आउं धणुवेयसंजुत्तं ॥२॥ (छाया- अष्टौ निमित्ताङ्गानि दिव्योत्पातान्तरिक्षभौमं च । अङ्गस्वरलक्षणव्यञ्जनं च त्रिविधं पुनरेकैकम् ॥१॥ सूत्रं वृत्तिस्तथा वात्तिकं च पापश्रुतं एकोनविंशद्विधम् । गन्धर्वनाट्यवास्तुआयुर्धनुर्वेदसंयुक्तम् ॥२॥) वृत्तिः - अष्ट निमित्ताङ्गानि दिव्यं-व्यन्तराद्यदृट्टहासादिविषयम्, उत्पातं सहजरुधिरवृष्ट्यादिविषयम्, अन्तरिक्षं-ग्रहभेदादिविषयं, भौम-भूमिविकारदर्शनादेवास्मादिदं भवतीत्यादिविषयम्, अङ्गम्-अङ्गविषयं, स्वरं-स्वरविषयं, व्यञ्जनं-मषादि तद्विषयं, तथा च - अङ्गादिदर्शनतस्तद्विदो भाविनं सुखादि जानन्त्येव, त्रिविधं पुनरेकैकं दिव्यादि सूत्रं वृत्तिः
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy