________________
त्रिंशत्तमी षट्विशिका अधुना त्रिंशत्तमी षट्विशिकामाहमूलम् - एगूणतीसभेए, पावसुए दूरओ विवज्जंतो।
सगविहसोहिगुणण्णू, छत्तीसगुणो गुरू जयउ ॥३१॥ छाया - एकोनत्रिंशभेदानि, पापश्रुतानि दूरतो विवर्जयन् ।
___सप्तविधशोधिगुणज्ञः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥३१॥ प्रेमीया वृत्तिः - एकोनत्रिंशद्भेदानि - एकोनत्रिंशत्प्रकाराणि, पापश्रुतानि - पापकारणभूतानि श्रुतानि, दूरतः-दूरेण, विवर्जयन् - परित्यजन्, तथा सप्तविधशोधिगुणज्ञः- सप्तविधान् शोधिगुणाञ्जानाति, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति समुदायार्थः । ___ अवयवार्थस्त्वयम् - पापस्य - अशुभकर्मणः कारणभूतानि श्रुतानि-शास्त्राणीति पापश्रुतानि । तान्येकोनत्रिंशद्विधानि । तद्यथा -१-२४ प्रत्येकं सूत्रवृत्तिवार्तिकभेदात्रिविधानि दिव्य-उत्पात-अन्तरिक्ष-भौम-अङ्ग-स्वर-लक्षण-व्यञ्जनात्मकान्यष्टौ निमित्ताङ्गानि, २५ गन्धर्वं, २६ नाट्यं, २७ वास्तु २८ वैद्यकं २९ धनुर्वेदश्च । यदुक्तं - श्रमणप्रतिक्रमणसूत्रे तद्वत्तौ च -
“एगूणतीसाए पावसुयप्पसंगेहिं ।' (छाया- एकोनत्रिंशद्भिः पापश्रुतप्रसङ्गैः ।)
वृत्तिः - एकोनत्रिंशद्भिः पापश्रुतप्रसङ्गैः पापोपादानानि पापश्रुतानि तेषां प्रसङ्गाः-तथासेवनारूपास्ते चामी -
'अट्ठनिमित्तङ्गाइ दिव्वुप्पायन्तरिक्खभोमं च । अंगं सरवंजणलक्खणं च तिविहं पुणेक्केक्कं ॥१॥