________________
९३७
अष्टविधाः प्रभावकाः (छाया- सर्वे प्रभावकास्ते जिनशासनशंसकारिणो ये तु ।
भङ्ग्यन्तरेणाऽपि यत एते भणिता जिनमते ॥३७॥) वृत्तिः - सर्वे समस्तास्ते प्रभावका अर्हन्मतोल्लासकाः, ये तु जिनशासनशंसाकारिणो जिनमतश्लाघाजनकाः आदौ प्रभावकाष्टकमुक्त्वा पुनरेवं कथमुच्यते ? इत्याह - यतो यस्मात्कारणात् जिनमते सिद्धान्ते एते प्रभावकाः भङ्ग्यन्तरेणापि प्रकारान्तरेणापि भणिताः कथिता इति गाथार्थः ॥३७॥ तानेव विशेषयन्नाह -
अइसेसिइड्डि धम्मकहि वाइ आयरिय खवग नेमित्ती।
विज्जारायागणसम्मओ य तित्थं पभावंति ॥३८॥ (छाया- अतिशेषितद्धिः धर्मकथी वादी आचार्यः क्षपक: नैमित्तिकः ।
विद्याराजगणसम्मतश्च तीर्थं प्रभावयन्ति ॥३८॥) वृत्तिः - अतिशेषिता-अपरेभ्यः परमोत्कर्षं नीता ऋद्धयो-जङ्घाचारणविद्याचारणाशीविषजल्लोषध्यवधिमनःपर्यायादिलब्धयो यस्य सोऽतिशेषितद्धिः, धर्मकथी व्याख्यानलब्धिमान, वादि परवादिविजेता, आचार्यः षण्णवत्यधिकद्वादशशतगुणालङ्कृतः, क्षपकोविकृष्टतपस्वी, नैमित्तिकः त्रिकालज्ञानवेत्ता, विद्यावान् सिद्धविद्यामन्त्रः, 'रायगणसम्मतो' नरेन्द्रप्रभृतिलोकाभीष्टः, एवं भङ्ग्यन्तरेणाष्टौ प्रभावकाः तीर्थं जिनशासनं प्रभावयन्ति उद्योतयन्ति, चः समुच्चयवाचीति गाथार्थः ॥३८॥ ___ यदि कालादिवैषम्यादेताः सिद्धयो न स्युस्तदा कथं तीर्थप्रभावना भवतीत्याह -
इय संपत्तिअभावे, जत्तापूयाइ जणमणोरमणं ।
जिणजइविसयं सयलं, पभावणा सुद्धभावेणं ॥३९॥ (छाया- इति सम्पत्त्यभावे, यात्रापूजादि जनमनोरमणम् ।
जिनयतिविषयं सकलं, प्रभावना शुद्धभावेन ॥३९॥) वृत्तिः - इति पूर्वोक्तप्रकारेण सम्पदभावे लब्धिविरहे सति, न हि सर्वत्रताः पूर्वोक्ता लब्धयः सम्भवन्ति, विशिष्य निरतिशये कालेऽस्मिन्, तदा किं कर्त्तव्यमित्याह - 'जत्त'तियात्रा श्रीशत्रुञ्जयादिमहातीर्थेषु चतुर्विधसङ्ग्रेन सह सोत्सवं गमनं, अथवा युगप्रधानादेर्वन्दनार्थं महा सम्मुखयानं पूजा-कुसुमादिभिरर्हदर्चनं उत गुरूणां वन्दनकशुश्रूषादिकरणं,