________________
९३८
अष्टविधाः प्रभावकाः आदिशब्दादभयदानसत्रागारपटहोद्घोषणादि एवंरूपे कृत्ये कृते किं स्यादित्याह - 'जण'त्ति-जना लोकास्तेषां मनश्चित्तं तस्य रमणं-प्रीत्युत्पादकं अन्यदप्युत्सर्पणादि, किंनिमित्तमित्याह - 'जिण 'त्ति-जिना अर्हन्तो यतयः-साधवस्तेषां विषयं तन्निमित्तं सकलं-सर्वमनुष्ठानं प्रभावना महिमा भवति, कथम् ? - शुद्धभावेन त्रिकरणविशुद्ध्या कृतमिति गाथार्थः ॥३९॥'
हरिभद्रसूरिसूत्रितसम्बोधप्रकरणेऽपि प्रकारान्तरेणाऽष्टौ प्रभावका इत्थं प्रतिपादिताः -
'१ अइसेसइड्डि २ धम्मकहि ३ वाई ४ आयरिय ५ खवग ६ नेमित्ती। ७ विज्जा ८ रायागणसंमया य तित्थं पभावंति ॥९२९॥' (छाया- १ अतिशेषद्धिः २ धर्मकथी ३ वादी ४ आचार्य: ५ क्षपकः ६ नैमित्तिकः ।
७ विद्या ८ राजगणसम्मताश्च तीर्थं प्रभावयन्ति ॥९२९॥) अत्र अतिशेषा - अवधिमनःपर्ययज्ञानामर्षोंषध्यादयोऽतिशयास्ते तैर्वा ऋद्धिर्यस्य सोऽतिशेषद्धिः, राजसम्मता-नृपवल्लभाः, गणसम्मता-महाजनादिबहुमता इति, शेषं स्पष्टार्थम् । प्रभावकाणामष्टविधत्वात्प्रभावकत्वमप्यष्टविधम् ।
गुरुरेतदष्टविधं प्रभावकत्वं प्रदर्श्य जिनशासनं प्रभावयति । यद्वा गुरुरेतदष्टविधं प्रभावकत्वं जनेभ्यः सुष्ठ प्रतिपादयति । एवं षट्त्रिंशद्गुणविभूषितो गुरुर्जिनशासनं प्रभावयतु ॥३०॥
इत्येकोनत्रिंशत्तमी षट्विशिका सम्पूर्णा
+
संसारचारए चारए व्व आवीलियस्स बंधेहिं । उव्विग्गो जस्स मणो, सो किर आसन्नसिद्धिपहो ॥
કારાગૃહ જેવા સંસારના કેદખાનામાં કર્મબંધથી પીડાતા જે જીવનું મન ઉદ્વેગ પામે છે તેનો મોક્ષમાર્ગ ખરેખર નજીક છે. जइ ता असक्कणिज्जं, न तरसि काऊण तो इमं कीस । अप्पायत्तं न कुणसि, संजमजयणं जईजोगं? ॥
જો અશક્ય અનુષ્ઠાન ન કરી શકતા હો તો આ પોતાને સ્વાધીન એવી સાધુને યોગ્ય સંયમની જયણા કેમ નથી કરતો?
+