________________
अष्टविधाः प्रभावकाः
वृत्तिः - सिद्धा - जापहोमादियथावत्पूर्वसेवोत्तरसेवाभ्यां सिद्धिं गता, बह्व्यो - भूयस्यो रोहिण्यादिषोडशविद्यादेव्यधिष्ठिताऽष्टचत्वारिंशत्सहस्रप्रमिता विद्याः सिद्धशाबरादिपुरुषदैवताधिष्ठिताश्च मन्त्रा यस्य स सिद्धबहुविद्यामन्त्रः पुनः किंविशिष्टः ? - उचितज्ञः सङ्घादिप्रयोजनकुशलो विद्यावान् भवति, चः समुच्चये, इति गाथोत्तरार्द्धार्थः ॥३५॥
"
संघाइकज्जसाहग-चुण्णंजणजोगसिद्धओ सिद्धो ।
(छाया - सङ्घादिकार्यसाधक - चूर्णाञ्जनयोगसिद्धकः सिद्धः ।)
वृत्ति: - सङ्घस्य - साधुसाध्वी श्रावक श्राविकारूपस्य, आदिशब्दाज्जिनगृहबिम्बजिनागमानां च यत्कार्यं प्रयोजनं तस्य साधकानि - सम्पादकानि यानि चूर्णानि - सुवर्णसिद्ध्याद्युत्पत्तिजनकान्यौषधिवृन्दोद्भवानि अञ्जनानि च निधिदर्शनादृशीकरणकारणानि नेत्राञ्जनानि योगाश्च-सौभाग्यदौर्भाग्यकरा पादलेपादिव्योमोत्पतनसाधकास्तैः सिद्ध एव सिद्धको-जगति प्राप्तप्रतिष्ठः सिद्धो भवतीति गाथापूर्वार्द्धार्थः ॥
सप्तमं सिद्धप्रभावकलक्षणमुक्त्वाऽष्टमं कविस्वरूपं गाथोत्तरार्द्धेनाह -
९३६
भूयत्थसत्थगन्थी, जिणसासणजाणओ सुकई ॥३६॥
(छाया - भूतार्थशास्त्रग्रन्थी, जिनशासनज्ञायकः सुकविः ||३६||
वृत्तिः भूता-यथावत्तया सिद्धान्ते प्रणीता धर्म्माधर्म्माकाशपुद्गलजीवस्वरूपा येऽर्थास्तन्मयं यच्छास्त्रं तद्ग्रथ्नाति -गद्यपद्यरूपेण बन्ध्नातीति भूतार्थशास्त्रग्रन्थी, तथा जिनशासनं-निश्चितसदसन्नित्यानित्याभिलाप्यानभिलाप्यावियुतसामान्यविशेषमयानन्त
-
-
धर्म्मात्मकं कुनयविवर्जितं सकलनयमयं प्रत्यक्षपरोक्षप्रमाणोपपन्नं च जानातीति जिनशासनज्ञाता, अत एव सुष्ठु सत्यं चतुरनुयोगप्रतिबद्धं शास्त्रं कवयत इति सुकविः भवति, नृपादिचाटुकारिणां नियतमसद्भूतगुणोद्भाविनां कुकवीनां नरकपात एवातः सुष्ठुशब्दोपादानं सार्थकमिति गाथोत्तरार्द्धार्थः ।
कविप्रभावकविषये श्रीसिद्धसेनदिवाकरकथा, प्रभावकाणां विशेषस्वरूपमुक्त्वा
सामान्यलक्षणमाह
सव्वे पभावगा ते जिणसासणसंसकारिणो जे उ । भंगंतरेणवि जओ, एए भणिया जिणमयम्मि ॥३७॥