________________
अष्टविधाः प्रभावकाः
९३५ वादिप्रभावकविषये श्रीमल्लवादिकथा, तृतीयं वादिप्रभावकस्वरूपमुक्त्वा चतुर्थं नैमित्तिकस्वरूपं गाथोत्तरार्द्धनाह -
नेमित्तिओ निमित्तं कज्जंमि पउंजए निउणं ॥३४॥ (छाया- नैमित्तिको निमित्तं कार्ये प्रयुङ्क्ते निपुणम् ॥३४॥
वृत्तिः - 'नेमित्तिओ'त्ति दिव्यौत्पातिकान्तरिक्षभौमाङ्गस्वरलक्षणव्यञ्जनपरिज्ञानरूपमष्टाङ्गनिमित्तमस्यास्तीति नैमित्तिकः, स च निमित्तमतीतानागतवर्तमानकालप्रकाशकं कार्ये प्रवचनोन्नतिहेतौ प्रयुङ्क्ते, अकार्ये तु निमित्तं प्रयुज्यमानं महतेऽनर्थाय तपःक्षयाय च महात्मनामुपजायते, यदाहुर्धर्मदासगणय:
'जोइसनिमित्तअक्खर-कोउयआएसभूइकम्मेहिं ।
कारणाणुमोयणेहिं साहुस्स तवक्खओ होइ ॥११५॥' (उपदेशमाला) (छाया- ज्योतिर्निमित्ताक्षर-कौतुकादेशभूतिकर्मभिः ।
कारणानुमोदनैः साधोः तपःक्षयः भवति ॥१॥) तदपि कथं प्रयोज्यमित्याह - निपुणं सुनिश्चितं यथा भवति, यदृच्छया प्रलापे प्रत्युतापभ्राजनैव जागर्तीति गाथोत्तरार्द्धार्थः ॥३४॥ चतुर्थं नैमित्तिकलक्षणमुक्त्वा पञ्चमं तपस्विस्वरूपं गाथापूर्वार्द्धनाह -
जिणमयमुब्भासंतो विगिट्ठखमणेहि भण्णइ तवस्सी । (छाया- जिनमतमुद्भासयन् विकृष्टक्षपणैः भण्यते तपस्वी ।)
वृत्तिः - विशिष्टानि यानि क्षपणानि अष्टमादीनि सांवत्सरिकपर्यन्तानि तपांसि, अथवा बाह्याभ्यन्तरानशनावमौदर्यवृत्तिसक्षेपरसत्यागकायक्लेशसंलीनताप्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायध्यानव्युत्सर्गभेदैर्द्वादशप्रकाराणि, तैर्विकृष्टक्षपणैः जिनमतं श्रीमदर्हच्छासनम् उद्भासयन् प्रभावयन् तपस्वी तपश्चरणकृद्धण्यत इति गाथापूर्वार्द्धार्थः ॥ पञ्चमं तपस्विप्रभावकस्वरूपमुक्त्वा षष्ठं विद्यावत्प्रभावकलक्षणं गाथोत्तरार्द्धनाह -
सिद्धबहुविज्जमतो, विज्जावन्तो य उचियनू ॥३५॥ (छाया- सिद्धबहुविद्यामन्त्रः, विद्यावान् च उचितज्ञः ॥३५॥)