________________
९३४
अष्टविधाः प्रभावकाः अभव्यानां तु दुरापास्तैव मुक्तिकथा, अत एव भव्यशब्दोपादानम् । 'धम्मकहि'त्ति धर्मकथाऽस्यास्तीति धर्मकथी 'कहणलद्धिल्लु'त्ति कथने-व्याख्याने लब्धिर्यस्य स कथनलब्धिकः, कश्चनापि घटप्रदीपवत्स्वयमवबुध्यमानोऽपि न परं बोधयितुं क्षमः अतः प्रवचनव्याख्यानर्हः, यस्तु क्षीरमध्वाश्रवादिलब्धिमान् हेतुयुक्तिदृष्टान्तैः परं प्रतिबोधयति स एव धर्मकथानुयोगार्हः, यदागमः -
'जो हेउवायपक्खम्मि हेउओ आगमम्मि आगमिओ।
सो समयप्पन्नवओ, सिद्धंतविराहगो अन्नो ॥१॥' (छाया- यो हेतुवादपक्षे हेतुत आगमे आगमिकः ।
स समयप्रज्ञापकः, सिद्धान्तविराधकोऽन्यः ॥१॥) अत एव कथनलब्धिक इति विशेषणं युक्तियुक्तमिति गाथोत्तरार्द्धार्थः ॥३३॥
प्रावचनिकधर्मकथिकप्रभावकद्वयलक्षणमुक्त्वा तृतीयवादिप्रभावकस्वरूपं गाथापूर्वार्द्धनाह -
वाई पमाणकुसलो, रायदुवारेऽवि लद्धमाहप्पो। (छाया- वादी प्रमाणकुशलो, राजद्वारेऽपि लब्धमाहात्म्यः ।)
वृत्तिः - ‘वाइ'त्ति स वादी कथ्यत इति सम्बन्धः, यः प्रमाणकुशलः प्रमाणानि सौगतादिमतप्रतीतानि प्रत्यक्षादीनि, यदुक्तं -
'चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्दं, तद्वैतं पारमर्षः सहितमुपमया तत्त्रयं चाक्षपादः । अर्थापत्त्या प्रभाकृद्वदति तदखिलं मन्यते भट्ट एतत् ।
साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥१॥' तत्र कुशल:-प्रवीणः, अज्ञातप्रमाणो हि वादाय प्रवर्त्तमान उपहास्यतामेति, अतः प्रमाणप्रवीण एव गवेष्यत इति । पुनः किंविशिष्टः ? लब्धमाहात्म्यः लब्धं माहात्म्यं-प्रतिष्ठा येन सः, न केवलं लोके किन्तु राजद्वारेऽपि पण्डितान्वितायां सभायामपि, अत एव लब्धमाहात्म्य इति विशेषणं सार्थकम्, अप्राप्तप्रतिष्ठो हि जने वातूलवद्यदपि तदपि प्रलपन्न गौरवास्पदीभवतीत्यत एवंविधो यः स वादी, वादिप्रतिवादिसभ्यसभापतिसनाथायां प्रतिपक्षनिरासपूर्वं स्वपक्षस्थापनमवश्यं वदतीति वादीति गाथापूर्वार्द्धार्थः ।