SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ अष्टविधाः प्रभावकाः तपस्वी पञ्चमः, विद्यावान् षष्ठः, सिद्धः सप्तमः, कविरष्टमश्चेत्यष्टौ ॥३२॥ प्रवचनीप्रभावकस्वरूपं गाथापूर्वार्द्धनाह - कालोचियसुत्तधरो, पावयणी तित्थवाहगो सूरी । (छाया - कालोचितसूत्रधरः, प्रवचनी तीर्थवाहकः सूरिः ।) वृत्ति: - 'कालोचिय'त्ति काले- सुषमदुष्षमादिके उचितं - योग्यं सूत्रं - सिद्धान्तं श्रीपुण्डरीकश्रीगौतमादिवद्धरतीति कालोचितसूत्रधारः 'पावयणी 'त्ति प्रवचनं-द्वादशाङ्गं गणिपिटकं तदस्यास्तीति प्रवचनी युगप्रधानागमः यस्मान्मुक्तिमार्गमिच्छुभिः प्रवचनोक्तपरिशीलने यतनीयं, यदागमः - 'जम्हा न मुत्तिमग्गे, मुत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं, तम्हा तत्थेव जइयव्वं ॥१॥ ' (छाया - यस्मात् न मुक्तिमार्गे, मुक्त्वा आगममिह प्रमाणम् । विद्यते छद्मस्थानां, तस्मात् तत्रैव यतितव्यम् ॥१॥ ९३३ 'तित्थ 'त्ति तीर्थं चतुर्विधः श्रीसङ्घस्तस्य वाहकः - शुभे पथि प्रवर्तकः सूरिः आचार्यः स्यादिति गाथापूर्वार्द्धार्थः । आद्यं प्रावचनिकस्वरूपमुक्त्वा द्वितीयं धर्मकथिकस्वरूपं गाथोत्तरार्द्धेनाह पडिबोहियभव्वजणो धम्मकही कहणलद्धिल्लो ॥ ३३ ॥ (छाया - प्रतिबोधितभव्यजनो धर्मकथी कथनलब्धिमान् ॥३३॥) वृत्तिः - 'पडिबोहिय' त्ति प्रतिबोधिताः - मिथ्यात्वनिद्रामुद्रिताः सम्यग्ज्ञानभानुप्रकाशेनोज्जागरिता भव्याः - सेत्स्यन्तो जना - लोका येन स प्रतिबोधितभव्यजनः । ननु यदि भव्या मुक्तिगामिनस्तत्कि समसमयं शिवं न व्रजेयुः ?, सत्यं, सामग्र्यभावान्न निर्वृतिमासादयन्ति, यदुक्तं 'सामग्गिअभावाओ, ववहारियरासिअप्पवेसाओ । भव्वावि ते अनंता, जे मुक्खसुहं न पावंति ॥ १ ॥ ' (छाया- सामग्र्यभावात्, व्यवहारराश्यप्रवेशात् । भव्या अपि तेऽनन्ताः, ये मोक्षसुखं न प्राप्नुवन्ति ॥ १ ॥ )
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy