SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ९३२ अष्टाविंशतिर्लब्धयः वृत्तिः - तत्र प्रवचनं द्वादशाङ्गं गणिपिटकं तदस्यास्त्यतिशयवदिति प्रवचनी युगप्रधानागमः । धर्मकथा प्रशस्यास्यास्तीति धर्मकथी शिखादित्वादिन् । वादिप्रतिवादिसभ्यसभापतिलक्षणायां चतुरङ्गायां सभायां प्रतिपक्षनिरासपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी । निमित्तं त्रैकालिकं लाभालाभादिप्रतिपादकं शास्त्रं तद्वेत्त्यधीते वा नैमित्तिकः । तपो विकृष्टमष्टमाद्यस्यास्तीति तपस्वी । विद्याः प्रज्ञप्त्यादयः शासनदेवतास्ताः साहाय(य्य)के यस्य स विद्यवान्। अञ्जनपादलेपतिलकगुटिकासकलभूताकर्षणनिष्कर्षणवैक्रियत्वप्रभृतयः सिद्धयस्ताभिः सिद्ध्यति स्म सिद्धः । कवते गद्यपद्यादिभिः प्रबन्धैवर्णनां करोतीति कविः । एते प्रवचन्यादयोऽष्टौ प्रभवतो भगवच्छासनस्य यथायथं देशकालाद्यौचित्येन साहाय(य्य)ककरणात्प्रभावकास्तेषां कर्म प्रभावना द्वितीयं भूषणम् ॥२/१६।।' सम्यक्त्वसप्ततिकातद्वृत्त्योरप्युक्तम् - 'पञ्चमं शङ्कादिदूषणाधिकारमुक्त्वा षष्ठं प्रभावकाधिकारमाह - सम्मइंसणजुत्तो, सइ सामत्थे पभावगो होइ । सो पुण इत्थ विसिट्ठो, निहिट्ठो अट्टहा सुत्ते ॥३१॥ (छाया- सम्यग्दर्शनयुक्तः, सति सामर्थ्य प्रभावको भवति । ___ स पुनरत्र विशिष्टः, निर्दिष्टो अष्टधा सूत्रे ॥३१॥) वृत्तिः - सम्यग्दर्शनयुक्तः अतीचाररहितसम्यक्त्वसहितः सामर्थ्य विद्यमाने तत्तल्लब्धिविशेषबलत्वे प्रभावकः श्रीजिनशासनप्रभावनाप्रवीणधिषणो भवति जायते, स पुनरत्र सूत्रे जिनप्रणीतसिद्धान्ते विशिष्टः प्रोल्लसज्ज्ञानादिगुणैः प्रकृष्टोऽष्टधा-अष्टभिः प्रकारैनिर्दिष्टः-कथित इति गाथार्थः ॥३१॥ तानेवाष्टौ भेदान् स्पष्टयन्नाह - पावयणी धम्मकही वाई नेमित्तिओ तवस्सी य । विज्जा सिद्धो य कवी, अद्वेव पभावगा भणिया ॥३२॥ (छाया- प्रवचनी धर्मकथी वादी नैमित्तिकः तपस्वी च । विद्या सिद्धश्च कविः, अष्टावेव प्रभावका भणिताः ॥३२॥) वृत्तिः - प्रावचनिक एकः, धर्मकथिको द्वितीयः, वादी तृतीयः, नैमित्तिकश्चतुर्थः,
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy