________________
अष्टाविंशतिर्लब्धयः
९३१ इत्यलं प्रसङ्गेन । प्रकृतमुच्यते - यदिह विंशतिसङ्ख्यया केचिल्लब्धीनियम्यन्ति, तद् भवतां प्रमाणं नवा ? । इत्याह - 'तं न जुज्जए' इत्यादि । कुतो न युज्यते ?, इत्याह - लब्धिरिति यः अतिशयः इति वाक्यशेषः, स तावल्लब्धिरहितसामान्यजीवेभ्यो विशेष उच्यते । ते च विशेषाः कर्मक्षय-क्षयोपशमादिवैचित्र्याज्जीवानामपरिमिताः सङ्ख्यातुममशक्याः, इति कथं विंशतिसङ्ख्यानियमस्तेषां युज्यते ? । किञ्च, गणधरत्व-पुलाकत्वतेजःसमुद्धाता-ऽऽहारकशरीरकरणादिकास्तावत् प्रसिद्धा अपि बढ्यो लब्धयः श्रूयन्ते, तासामपीत्थमसङ्ग्रहः स्यादिति । एतदेवाह – 'गणहरे'त्यादि ॥८०२॥ ॥८०३।। सम्बोधप्रकरणे उक्तम् -
'संघाइयाण कज्जे, चुण्णिज्जा चक्कवट्टिमवि जीए।
तीए लद्धीइ जुओ, लद्धिपुलाओ मुणेयव्वो ॥७४९॥' (छाया- सङ्घादिकानां कार्ये, चूर्णयेत् चक्रवर्तिनमपि यया ।
तया लब्ध्या युतो, लब्धिपुलाको ज्ञातव्यः ॥७४९॥) गुरुर्लोके एतासां लब्धीनां प्रदर्शने निष्णातो भवति ।
जैनप्रवचनं प्रभावयन्ति-प्रकाशयन्तीति प्रभावकाः । तेऽष्टविधाः । तद्यथा - १ प्रवचनी, २ धर्मकथी, ३ वादी, ४ नैमित्तिकः, ५ तपस्वी, ६ विद्यावान्, ७ सिद्धः, ८ कविश्च । उक्तञ्च चैत्यवन्दनमहाभाष्ये -
'पावयणी धम्मकही, वाई नेमित्तिओ तवस्सी य ।
विज्जासिद्धो य कवी, अद्रुव पभावगा भणिआ ॥१२८॥' (छाया- प्रवचनी धर्मकथी, वादी नैमित्तिकस्तपस्वी च ।
विद्या सिद्धश्च कविः, अष्टावेव प्रभावका भणिताः ॥१२८॥) एतेषामष्टानां प्रभावकाणां स्वरूपमेवं प्रतिपादितं योगशास्त्रवृत्तौ -
'पावयणी धम्मकही वाई नेमित्तिओ तवस्सी य ।
विज्जा सिद्धो अ कई अटेव पभावगा भणिया ॥१॥ (छाया- प्रवचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च ।
विद्या सिद्धश्च कविः अष्टावेव प्रभावका भणिताः ॥१॥)