________________
अष्टाविंशतिर्लब्धयः
९२९ किमेता एव लब्धयः ?, इत्याह -
उदय-क्खय-क्खओवसमो-वसमसमुत्था बहुप्पगाराओ।
एवं परिणामवसा लद्धीओ होति जीवाणं ॥८०१॥ (छाया- उदय-क्षय-क्षयोपशमोपशमसमुत्था बहुप्रकाराः ।
एवं परिणामवशाल्लब्धयो भवन्ति जीवानाम् ।।८०१॥) वृत्तिः - एवमेता अन्याश्च जीवानां शुभ-शुभतर-शुभतमपरिणामवशाद् बहुप्रकारा अपरिमितसङ्ख्या लब्धयो भवन्ति । कथम्भूताः ?, इत्याह - 'उदय' त्ति वैक्रियाऽऽहारकनामादिकर्मोदयसमुत्थास्तावद् वैक्रियाऽऽहारकशरीरकरणादिका लब्धयो भवन्ति । 'खय'त्ति दर्शनमोहादिक्षयसमुत्थास्तु क्षायिकसम्यक्त्व-क्षीणमोहत्व-सिद्धत्वादयः । 'खओवसमु' त्ति दान-लाभान्तरायादिकर्मक्षयोपशमसमुत्था अक्षीणमहानस्यादयः । तत्र येनाऽऽनीतं भैक्षं बहुभिरप्यन्यैर्भुक्तं न क्षीयते, किन्तु स्वयमेव भुक्तं निष्ठां याति तस्याऽक्षीणमहानसीलब्धिः 'उवसम' त्ति दर्शनमोहाद्युपशमसमुत्था औपशमिकसम्यक्त्वोपशान्तमोहत्वादिका लब्धयो भवन्ति ॥८०१॥ अथ मतान्तरं तन्निरासं च दर्शयितुमाह -
केई भणंति वीसं लद्धीओ तं न जुज्जए जम्हा । लद्धि त्ति जो विसेसो अपरिमिया ते य जीवाणं ॥८०२॥ गणहर-तेया-हारय-पुलाय-वोमाइगमणलद्धीओ।
एवं बहुगाओ वि य सुव्वंति न संगिहीयाओ ॥८०३॥ (छाया- केचिद् भणन्ति विंशतिं लब्धीस्तद् न युज्यते यस्मात् ।
लब्धिरिति यो विशेषोऽपरिमितास्ते च जीवानाम् ॥८०२।। गणधर-तेज-आहारक-पुलाक-व्योमादि गमनलब्धयः ।
एवं बहुका अपि च श्रूयन्ते न सङ्ग्रहीताः ॥८०३॥) वृत्तिः - केचिदाचार्यदेशीया विंशतिसङ्ख्यानियमिता एव लब्धीः प्राहुः, यतस्ते पठन्ति -
'आमोसही य खेले जल्ल-विप्पे य होइ सव्वे य । कोटे य बीयबुद्धी पयाणुसारी य संभिन्ने ॥१॥