SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अष्टाविंशतिर्लब्धयः व्यस्तोपादानेऽपि भाष्यकृता द्वयोरपि मनः पर्यायज्ञानावयवतया प्रत्यासन्नत्वादृजुमतेरनन्तरं विपुलमतेरपि व्याख्यानं कृतमित्यदोषः । 'विउलं वत्थुविसेसाण' त्ति विपुलं वस्तुनो घटादेर्विशेषणानां देश-क्षेत्र - कालादीनां मानं सङ्ख्यास्वरूपं तद्ग्राहिणी विपुलमतिः । षष्ठसप्तमाऽष्टमगाथाभिर्जङ्घाचारणद्धिस्वरूपम् । नवमदशमगाथाभ्यां तु विद्याचारणर्द्धिस्वरूपम् । एकादशगाथयाऽऽशीविषद्धिस्वरूपं व्याख्यातम् । 'ते कम्म जाई 'त्यादि ते आशीविषाः कर्मभेदेन-तिर्यगाद्यनेकविधा, जातिभेदेन तु वृश्चिकमण्डूकादिचतुर्विधविकल्पाः । द्वादशगाथायां केवली चतुर्भेदः, कथम् ?, इत्याह- क्षायिकसम्यक्त्व - ज्ञान - दर्शन चारित्रभेदादिति ॥७८१-७९३॥ ९२८ तदेवमभिहिताः शेषर्द्धयः । एताश्चाऽन्यासामपि क्षीर-मधु-सप्पिराश्रवादिकानामृद्धीनामुपलक्षणमिति । अत एवाह भाष्यकारः छाया खीर-महु- सप्पिसाओवमावयणा तयासवा होंति । कोट्ठयधन्नसुनिग्गलसुत्तत्था कोट्ठबुद्धीया ॥ ७९९ ॥ जो सुत्तपण बहुं सुयमणुधावइ पयाणुसारी सो । जो अत्थपएणत्थं अणुसरइ स बीयबुद्धी उ ॥ ८०० ॥ क्षीरमधुसर्पिःस्वादोपमवचनास्तदाश्रवा भवन्ति । कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्ठबुद्धयः ||७९९|| यः सूत्रपदेन बहु श्रुतमनुधावति पदानुसारी सः । योऽर्थपदेनाऽर्थमनुसरति स बीजबुद्धिस्तु ॥ ८००ll) वृत्तिः - चीर्णग्रन्थिपर्णकादिवनस्पतिविशेषस्य चक्रवर्तिसम्बन्धिनो गोलक्षस्याऽर्धार्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः सम्बन्धि यत् क्षीरं तदिह गृह्यते । मध्वपि किमप्यतिशायिशर्करादिमधुरद्रव्यम् । एवं सर्पिरपि किमप्यतिशायि द्रष्टव्यम् । एवम्भूतक्षीरमधुसर्पिषां य आस्वादस्तदुपमाप्यायकवचना ये तीर्थकर - गणधरादयस्ते तदा श्रवा मन्तव्याः, क्षीर-मधुसर्पिराश्रवा इत्यर्थः, वचनेन यथोक्तक्षीरादीनिव ते स्रवन्तः सकलजनं सुखयन्ति । मकारस्य दीर्घत्वम्, उकारश्चाऽलाक्षणिकः । तथा, कोष्ठकधान्यवत् सुनिर्गलौ-अविस्मृतत्वाच्चिरस्थायिनौ सूत्रार्थौ येषां ते कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्ठबुद्धयः । यस्त्वध्यापकादेकेनापि सूत्रपदेनाऽधीतेन बह्वपि सूत्रं स्वप्रज्ञयाऽभ्यूह्य गृह्णाति स पदानुसारिलब्धिः । 'उत्पाद-व्यय-8 - ध्रौव्ययुक्तं सत्' इत्यादिवदर्थप्रधानं पदमर्थपदं तेनैकेनापि बीजभूतेनाऽधिगतेन योऽन्यं प्रभूतमप्यर्थमनुसरति स बीजबुद्धिरिति ॥७९९-८०० ।।
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy