________________
९२७
अष्टाविंशतिर्लब्धयः
ऋजु सामान्यं तन्मात्रग्राहिणी ऋजुमतिर्मनोज्ञानम् । प्रायो विशेषविमुखं घटमात्रं चिन्तितं जानाति ॥७८४॥ विपुलं वस्तुविशेषाणां मानं तद्ग्राहिणी मतिर्विपुला । चिन्तितमनुसरति घटं प्रसङ्गतः पर्यवशतैः ॥७८५॥ अतिशयचरणसमर्था जवा-विद्याभ्यां चारणा मुनयः । जङ्घाभ्यां याति प्रथमो निश्रां कृत्वा रविकरैरपि ॥७८६।। एकोत्पादेन गतो रुचकवरमितस्ततः प्रतिनिवृत्तः । द्वितीयेन नन्दीश्वरमिह तत एति तृतीयेन ॥७८७।। प्रथमेन पण्डकवनं द्वितीयोत्पातेन नन्दनमेति । तृतीयोत्पातेन तत इह, जङ्घाचारणो भवति ॥७८८॥ प्रथमेन मानुषोत्तरनगं स नन्दीश्वरं तु द्वितीयेन । एति ततस्तृतीयेन कृतचैत्यवन्दन इह ॥७८९॥ प्रथमेन नन्दनवने द्वितीयोत्पातेन पण्डकवने । एतीह तृतीयेन यो विद्याचारणो भवति ॥७९०॥ आशी दाढा तद्गतमहाविषा आशीविषा द्विविधभेदाः । ते कर्म-जातिभेदेनाऽनेकधा चतुर्विधविकल्पाः ॥७९१॥ मनोज्ञानिग्रहणेन विपुलमतिः केवली चतुर्भेदः ।
सम्यक्त्व-ज्ञान-दर्शन-चारित्रैः क्षयप्रसूतैः ॥७९२॥) वृत्तिः - एतास्त्रयोदशापि गाथा प्रायो व्याख्यातार्थाः, सुबोधार्थाश्च । नवरं प्रथमगाथायामामर्षोंषधिविपुडौषधिस्वरूपं व्याख्यातम् । द्वितीयगाथायां तु खेल-जल्ल-सौषधिस्वरूपं विवृतम्, तत्र 'एए' त्ति एतौ विड्-मूत्रावयवौ, 'अन्ने य' त्ति अन्ये च खेल-जल्ल-केशनखादयो बहवः सर्वे च समुदिता अवयवा येषां साधूनां सुरभयो रोगोपशमसमर्थाश्च ते साधवो भवति । कथम्भूताः, इत्याह - 'तओसहिपत्त' त्ति ते च ते औषधयश्च तदौषधयो विड्-मूत्र-खेल-जल्ल-केशनखाद्यौषधयः सर्वोषधयश्च ताः प्राप्तास्तदौषधिप्राप्ताः साधवो भवन्तीत्यर्थः । तृतीयगाथायां तु सम्भिन्नश्रोतोऽभिधानार्थस्वरूपं निर्णीतम् । चतुर्थ-पञ्चमगाथाभ्यां तु ऋजुमति-विपुलमतिमनःपर्यायज्ञानस्वरूपम् । निर्युक्तौ विपुलमतेरग्रेतनगाथायां