________________
अष्टाविंशतिर्लब्धयः
९२५ जातितः, कर्मतश्च । तत्र जातितो वृश्चिक-मण्डूक-सर्प-मनुष्यजातयः, क्रमेण बहु-बहुतरबहुतमविषा:-वृश्चिकविषं ह्युत्कृष्टतोऽर्धभरतक्षेत्रप्रमाणं शरीरं व्याप्नोतीति, मण्डूकविषं तु भरतक्षेत्रप्रमाणम्, भुजङ्गमविषं तु जम्बूद्वीपप्रमाणम्, मनुष्यविषं तु समयक्षेत्रप्रमाणं वपुर्व्याप्नोति । कर्मतस्तु पञ्चेन्द्रियतिर्यञ्चः, मनुष्याः, देवाश्चाऽऽसहस्रारादिति । एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आशीविषवृश्चिकभुजङ्गादिसाध्यकर्मक्रियां कुर्वन्तिशापादिना परं व्यापादयन्तीत्यर्थः । देवाश्चाऽपर्याप्तावस्थायां तच्छक्तिमन्तो द्रष्टव्याः, ते हि पूर्वं मनुष्यभवे समुपार्जिताशीविषलब्धयः सहस्रारान्तदेवेष्वभिनवोत्पन्ना अपर्याप्तावस्थायां प्राग्भविकाऽऽशीविषलब्धिमन्तो मन्तव्याः । ततः परं तल्लब्धिनिवृत्तेः । पर्याप्ता अपि देवाः शापादिना परं विनाशयन्ति, किन्तु लब्धिव्यपदेशस्तदा न प्रवर्तत इति । ___ 'केवली'त्यादि केवलिनश्च प्रसिद्धाः । मनःपर्यायज्ञानिग्रहणेन चेह विपुलमतिरूपं मनःपर्यायज्ञानं गृह्यते, ऋजुमतिरूपस्य तस्य प्रागपि गृहीतत्वात् । तत्र विपुलं बहुविशेषसङ्ख्योपेतं वस्तु मन्यते गृह्णातीति विपुलमतिः, पर्यायशतोपेतं चिन्तनीयघटादिवस्तुविशेषग्राहिणी मतिविपुलमतिरित्यर्थः । आह - ननु सामान्येनैव मनःपर्यायज्ञानमेकमेव किं न गृहीतम्, तेनैकेनापि गृहीतेन तदन्तर्गतर्जुमतिविपुलमतिविशेषद्वयसङ्ग्रहसिद्धेः ? । अथ विशेषद्वयमिदं पृथग् गृहीतं तथापि व्यस्तं किमित्युपात्तम्, एकस्मिन्नेव स्थाने एतदुपादानस्य युज्यमानत्वात् ? सत्यम्, किन्तु कुतश्चिदतिशयज्ञानिदृष्टविचित्रकारणाद् विचित्रा भगवतः सूत्रस्य विरचनप्रवृत्तिरित्यप्रेर्यमिदमिति । पूर्वाणि धारयन्तीति पूर्वधरा दश-चतुर्दशपूर्वविदः, केवलित्व-मन:पर्यायज्ञानित्व-पूर्वधरत्वानां च ऋद्धित्वं प्रतीतमेव, देवेन्द्राणामपि पूज्यत्वादिति । अर्हत्-चक्रवर्तिबलदेव-वासुदेवानामपि ऋद्धिमत्त्वं विख्यातमेव ॥ इति नियुक्तिगाथाद्वयार्थः ॥७७९-७८०॥ अथैतद्व्याख्यानार्थं भाष्यकारः प्राह -
संफुरिसणमामोसो मुत्त-पुरीसाण विप्पुसो विप्पो । अन्ने विडि त्ति विट्ठा भासंति य प त्ति पासवणं ॥७८१॥ एए अन्ने य बहू जेसिं सव्वे य सुरभओऽवयवा। रोगोवसमसमत्था ते होंति तओसहिपत्ता ॥७८२॥ जो सुणइ सव्वओ मुणइ सव्वविसए व सव्वसोएहि । सुणइ बहुए व सद्दे भिन्ने संभिन्नसोओ सो ॥७८३॥