SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ अष्टाविंशतिर्लब्धयः कारित्वाच्चक्षूरूपतामापन्नम्, चक्षुरपि श्रोत्रकार्यकारित्वात् तत्तद्रूपतामापन्नम्, इत्येवं सम्भिन्नानि श्रोतांसि सर्वाण्यपि परस्परेणेन्द्रियाणि यस्यासौ सम्भिन्नश्रोता इति भावः, इत्यत्रापि स एवाऽर्थः । अथवा, द्वादशयोजनस्य चक्रवर्तिकटकस्य युगपद् ब्रुवाणस्य, तत्तूर्यसङ्घातस्य वा युगपदास्फाल्यमानस्य सम्भिन्नाँल्लक्षणतो विधानतश्च परस्परतो विभिन्नान् जननिवहसमुत्थान् शङ्खभेरी - भाणक ढक्कादितूर्यसमुत्थान् वा युगपदेव सुबहून् शब्दान् यः शृणोति स सम्भिन्नश्रोताः । एवं च सम्भिन्न श्रोतृत्वलब्धिरपि ऋद्धिरेवेति । 'उजुमइ' त्ति ऋज्वी प्रायो घटादिसामान्यमात्रग्राहिणी मतिः ऋजुमतिः विपुलमत्यपेक्षया किञ्चिदविशुद्धतरं मन:पर्यायज्ञानमेव । ‘सव्वोसहि' त्ति सर्व एव विड्-मूत्र - केश - नखादयोऽवयवाः सुरभयो व्याध्यपनयनसमर्थत्वादौषधयो यस्य स सर्वौषधिः, अथवा, सर्वा आमर्षोषध्यादिका औषधयो यस्यैकस्यापि साधोः स तथा । एवमेते ऋद्धिविशेषा बोद्धव्याः । ९२४ तथा 'चारण 'त्ति अतिशयवद्गमनाऽऽगमनरूपाच्चारणाच्चारणाः सातिशयगमनाऽऽगमनलब्धिसम्पन्नाः साधुविशेषा एव । ते च द्विविधाः - विद्याचारणाः जङ्घाचरणाश्च । तत्र विद्या विवक्षितः कोऽप्यागमस्तत्प्रधानश्चारणो विद्याचारणः । अस्य च यथाविधि सातिशयषष्ठलक्षणेन तपसा सर्वदैव तपस्यतो विद्याचारणलब्धिरुत्पद्यते, तथा चासावित एकेनोत्पातेन मानुषोत्तरपर्वतं गच्छति चैत्यानि च तत्र वन्दते । ततो द्वितीयेनोत्पातेन नन्दीश्वरनामानमष्टमद्वीपं गत्वा चैत्यानि वन्दते । तत एकेनोत्पातेन प्रतिनिवृत्त्य यतः स्थानाद् गतः पुनस्तत्रागच्छतीति । एष तावत् तस्य तिर्यग्गतिविषयः । ऊर्ध्वं त्वित एकेनोत्पातेन नन्दनवनं गत्वा तत्र चैत्यानि वन्दते, ततो द्वितीयेनोत्पातेन मेरुशिखरस्थं पण्डकवनं गत्वा चैत्यानि वन्दते । ततश्चैकेनोत्पातेन प्रतिनिवृत्त्य यतः स्थानाद् गतः पुनस्तत्राऽऽगच्छतीति । लूतातन्तुनिर्वर्तितपुटकतन्तून् रविकरान् वा निश्रां कृत्वा जङ्घाभ्यामाकाशेन चरतीति जङ्घाचारणः । अस्य च यथाविधि सातिशयाऽष्टमलक्षणेन विकृष्टतपसा सर्वदैव तपस्यतो जङ्घाचारणलब्धिरुत्पद्यते । तथा चासावित एकेनोत्पातेन त्रयोदशं रुचकवरद्वीपं गत्वा तत्र चैत्यानि वन्दते । ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दीश्वरमागत्य तत्र चैत्यानि वन्दते । ततस्तृतीयेनोत्पातेन यतः स्थानाद् गतस्तत्रागच्छतीति । एषोऽस्य तिर्यग्गतिविषयः । ऊर्ध्वं त्वित एकेनोत्पातेन पण्डकवनं गत्वा चैत्यानि वन्दते । ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दनवने चैत्यानि वन्दित्वा तृतीयोत्पातेन यतः स्थानाद् गतस्तत्राऽऽगच्छतीति । 'आसीविस त्ति' आश्यो दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते च द्विविधाः -
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy