________________
अष्टाविंशतिर्लब्धयः
केवलित्वं च-केवलिलब्धिरन्यच्च ऋजुमतिविपुलमतिलक्षणं लब्धिद्वयमित्येतास्त्रयोदश लब्धयः पुरुषाणामप्यभव्यानां नैव कदाचनापि भवन्ति, शेषाः पुनः पञ्चदश भवन्त भावः, अभव्यमहिलानामप्येताः पूर्वभणितास्त्रयोदश लब्धयो न भवन्ति, चतुर्दशी मधुक्षीरावलब्धिरपि नैव तासां भवति, शेषास्त्वेतद्व्यतिरिक्ताश्चतुर्दशलब्धयोऽविरुद्धाः, भवन्तीत्यर्थः ॥ १५०६|| ||१५०७|| ||१५०८'
विशेषावश्यकभाष्ये तद्वृत्तौ चोक्तम् -
'अथ शेषद्धर्वर्णयितुमाह -
आमोसहि विप्पोसहि खेलोसहि जलमोसहि चेव । संभिन्नसोय उजुमइ सव्वोसहि चेव बोधव्वो ॥७७९॥ चारण आसीविसा केवली य मणनाणिणो य पुव्वधरा । अरहंत - चक्कवट्टी बलदेवा वासुदेवा य ॥७८० ॥ (छाया आमर्षौषधिर्विप्रुडौषधिः श्लेष्मौषधिर्मलौषधिश्चैव ।
सम्भिन्नश्रोता ऋजुमतिः सर्वोषधिश्चैव बोद्धव्यः ॥७७९॥ चारणा आशीविषा केवलिनश्च मनोज्ञानिनश्च पूर्वधराः । अर्ह-च्चक्रवर्तिनो बलदेवा वासुदेवाश्च ॥७८०|)
९२३
वृत्तिः तत्राऽऽमर्षणमामर्षः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्याऽसावामर्षौषधिः, करादिसंस्पर्शमात्रादेव व्याध्यपनयनसमर्थो लब्धिलब्धिमतोरभेदोपचारात् साधुरेवाऽऽमर्षौषधिरित्यर्थः । ‘विप्पोसहि त्ति' मूत्र - पुरीषयोरवयवो विप्रुडुच्यते । अन्ये त्वाहुः - विड् उच्चारः, प्रेति प्रस्रवणम् । खेलः श्लेष्मा, जल्लो मलः, औषधिशब्देन समासकरणादिकं तथैव, सुगन्धाश्चैते विडादयस्तल्लब्धिमतां द्रष्टव्याः । इह चात्मानं परं वा रोगापनयनबुद्ध्या विडादिभिः स्पृशतः साधोस्तद्रोगापगमो द्रष्टव्यः, प्रागुक्ताऽऽमर्षलब्धिरपि शरीरैकदेशे सर्वस्मिन् वा शरीरे समुत्पद्यते, तेन चात्मानं परं वा व्याध्यपगमबुद्ध्या परामृशतस्तदपगमो द्रष्टव्यः । 'संभन्नसोय' त्ति यः सर्वतः सर्वैरपि शरीरदेशैः शृणोति स सम्भिन्नश्रोताः । अथवा श्रोतांसीन्द्रियाणि सम्भिन्नान्येकैकशः सर्वविषयैर्यस्य स तथा, एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान् यो मुणत्यवगच्छति स सम्भिन्नश्रोता इत्यर्थः । अथवा, श्रोतांसीन्द्रियाणि सम्भिन्नानि परस्परत एकरूपतामापन्नानि यस्य स तथा, श्रोत्रं चक्षुःकार्य