________________
अष्टाविंशतिर्लब्धयः
९२१ ___ 'खीरे'त्यादि, क्षीरं-दुग्धं मधु-मधुरद्रव्यं सपिः-घृतं एतत्स्वादोपमानं वचनं वैरस्वाम्यादिवत्तदाश्रवाः-क्षीरमधुसर्पिराश्रवा भवन्ति, इयमत्र भावना-पुण्ड्रेक्षुचारिणीनां गवां लक्षस्य क्षीरमर्धार्धक्रमेण दीयते यावदेकस्याः पीतगोक्षीरायाः क्षीरं, तत्किल चातुरिक्यमित्यागमे गीयते, तद्यथोपभुज्यमानमतीव मनःशरीरप्रह्लादहेतुरुपजायते तथा यद्वचनमाकर्ण्यमानं मनःशरीरसुखोत्पादनाय प्रभवति ते क्षीराश्रवाः, क्षीरमिव वचनमा-समन्तात् श्रवन्तीति व्युत्पत्तेः, एवं मध्वपि किमप्यतिशायिशर्करादिमधुरद्रव्यं द्रष्टव्यं, घृतमपि पुण्ड्रेक्षुचारिगोक्षीरसमुत्थं मन्दाग्निक्वथितं विशिष्टवर्णाद्युपेतं, मध्विव वचनमाश्रवन्तीति मध्वाश्रवाः, घृतमिव वचनमाश्रवन्तीति घृताश्रवाः, उपलक्षणत्वाच्च अमृताश्रविण ईक्षुरसाश्रविण इत्यादयोऽप्येवमवसेयाः, अथवा येषां पात्रपतितं कदन्नमपि क्षीरमधुसर्पिरादिरसवीर्यविपाकं जायते ते क्रमेण क्षीराश्रविणो मध्वाश्रविणः सर्पिराश्रविण इत्यादि । तथा कोष्ठनिक्षिप्तधान्यानीव सुनिर्गला-अविस्मृतत्वाच्चिरस्थायिनः सूत्रार्था येषां ते कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्ठबुद्धयः, कोष्ठे इव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गतौ तदवस्थावेव सूत्रार्थों धारयति न किमपि तयोः सूत्रार्थयोः कालान्तरेऽपि गलति सा कोष्ठबुद्धिलब्धिरिति भावः ॥१५०२॥
अथ पदानुसारिलब्धि बीजबुद्धिलब्धि चाह - 'जो' इत्यादि, योऽध्यापकादेः केनापि सूत्रपदेनाधीयते(ऽनुधावति-अधीते) बह्वपि सूत्रं स्वप्रज्ञयाऽभ्युह्य तदवस्थमेव गृह्णाति स पदानुसारिलब्धिमान्, तथा उत्पादव्ययध्रौव्ययुक्तं सदित्यादिवदर्थप्रधानं पदमर्थपदं तेनैकेनापि बीजभूतेनाधिगतेन योऽन्यमश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते स बीजबुद्धिलब्धिमान्, इयं च बीजबुद्धिलब्धिः सर्वोत्तमप्रकर्षप्राप्ता गणभृतां भगवतां, ते हि उत्पादादिपदत्रयमवधार्य सकलमपि द्वादशाङ्ग्यात्मकं प्रवचनमभिसूत्रयन्तीति ॥१५०३॥
इदानीमक्षीणमहानसीलब्धिमाह -
'अक्खीणे'त्यादि, येनानीतं भैक्षं बहुभिरपि-लक्षसङ्ख्यैरप्यन्यैस्तृप्तितोऽपि भुक्तं न क्षीयते यावदात्मना भुङ्क्ते, किन्तु तेनैव भुक्तं निष्ठां याति तस्याक्षीणमहानसीलब्धिः, अत्र चावधिचारणकेवलिगणधारिपूर्वधरअर्हच्चक्रवर्तिबलदेववासुदेवतेजोलेश्याऽऽहारकशीतलेश्यावैक्रियपुलाकलब्धयः प्रायेण प्रागेव परमार्थतः प्रतिपादितत्वात्प्रतीतत्वाच्च सूत्रकृता न विवृता इति, तेजोलेश्याशीतलेश्यालब्धी च स्थानाशून्यार्थं किञ्चिद्व्याख्यायेते - तत्र तेजोलेश्यालब्धिः क्रोधाधिक्यात्प्रतिपन्थिनं प्रति मुखेनानेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहन