________________
९२०
अष्टाविंशतिर्लब्धयः शङ्खकाहलाभेरीभाणकढक्कादितूर्यसमुत्थान् वा युगपदेव च सुबहून् शब्दान् यः शृणोति स सम्भिन्नश्रोताः सम्भिन्नश्रोतोलब्धिरिति ॥१४९८॥
अथ ऋजुमतिलब्धि विपुलमतिलब्धि चाह - __'रिउ'इत्यादि गाथाद्वयं, ऋजु-सामान्य वस्तुमात्रं तद्ग्राहिणी मतिः-संवेदनं ऋजुमति मनोज्ञानं-मनःपर्यायज्ञानमेव, सा च प्रायो बाहुल्येन विशेषविमुखं देशकालाद्यनेकपर्यायपरित्यक्तं घटमात्रं परेण चिन्तितं जानाति, तथा विपुलं वस्तुनो घटादेविशेषाणां देशक्षेत्रकालादीनां मान-सङ्ख्यास्वरूपं तद्ग्राहिणी मतिविपुला, सा च परेण चिन्तितं घटं प्रसङ्गतः पर्यवशतैरुपेतमनुसरति-सौवर्णः पाटलिपुत्रकोऽद्यतनो महानपवरकस्थित इत्याद्यपि प्रभूतविशेषैविशिष्टं घटं परेण चिन्तितमवगच्छतीत्यर्थः, इदमत्र तात्पर्य मनःपर्यायज्ञानं द्वेधाऋजुमतिविपुलमतिश्च, तत्र सामान्यघटादिवस्तुमात्रचिन्तनप्रवृत्तमनःपरिणामग्राहि किञ्चिदविशुद्धतरमर्धतृतीयाङ्गुलहीनमनुष्यक्षेत्रविषयं ज्ञानं ऋजुमतिलब्धिः, पर्यायशतोपेतघटादिवस्तुविशेषचिन्तनप्रवृत्तमनोद्रव्यग्राहि स्फुटतरं सम्पूर्णमनुष्यक्षेत्रविषयं ज्ञानं विपुलमतिलब्धिः ॥१४९९॥ ॥१५००॥
सम्प्रत्याशीविषलब्धिमाह -
'आसीत्यादि, आश्यो-दंष्ट्रास्तासु गतं-स्थितं महद्विषं येषां भवति ते आशीविषाः, ते च द्विभेदा:-कर्मभेदेन जातिभेदेन च, तत्र कर्मभेदेन पञ्चेन्द्रियतिर्यग्योनयो मनुष्या देवाश्च सहस्रारान्ता इत्यनेकविधाः, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आशीविषवृश्चिकभुजङ्गादिसाध्यां क्रियां कुर्वन्ति, शापप्रदानादिना परं व्यापादयन्तीति भावः, देवास्त्वपर्याप्तावस्थायां तच्छक्तिमन्तो मन्तव्याः, ते हि पूर्वं मनुष्यभवे समुपार्जिताशीविषलब्धयः सहस्रारान्तदेवेष्वभिनवोत्पन्ना अपर्याप्तावस्थायां प्राग्भविकाशीविषलब्धिसंस्कारादाशीविषलब्धिमन्तो व्यवह्रियन्ते, ततः परं तु पर्याप्तावस्थायां संस्कारस्यापि निवृत्तिरिति न तद्व्यपदेशभाजः, यद्यपि च नाम पर्याप्ता अपि देवा: शापादिना परं व्यापादयन्ति तथापि न लब्धिव्यपदेशः, भवप्रत्ययतस्तथारूपसामर्थ्यस्य सर्वसाधारणत्वात्, गुणप्रत्ययो हि सामर्थ्यविशेषो लब्धिरिति प्रसिद्धः, जातिभेदेन च वृश्चिकमण्डूकसर्पमनुष्यभेदाच्चतुर्विधाः क्रमेण बहुबहुतरबहुतमातिबहुतमविषाः, वृश्चिकविषं ह्युत्कृष्टतोऽर्धभरतक्षेत्रप्रमाणं वपुर्व्याप्नोति मण्डूकविषं भरतक्षेत्रप्रमाणं भुजङ्गविषं जम्बूद्वीपप्रमाणं मनुष्यविषं तु समयक्षेत्रप्रमाणमिति ॥१५०१॥
अथ क्षीरमधुसर्पिराश्रवलब्धि कोष्ठकबुद्धिलब्धि चाह -