________________
अष्टाविंशतिर्लब्धयः
९१९ देहलब्धिः अक्षीणमहानसीलब्धिः पुलाकलब्धिः, एवमेता अष्टाविंशतिसङ्ख्याः आदिशब्दादन्याश्च जीवानां शुभशुभतरशुभतमपरिणामवशादसाधारणतपःप्रभावाच्च नानाविधलब्धयः ऋद्धिविशेषा भवन्ति ॥१४९२॥ ॥१४९३॥ ॥१४९४॥ ॥१४९५॥
अर्थताः क्रमेण व्याचिख्यासुः पूर्वं तावदामर्शोषध्यादिलब्धिपञ्चकं प्रपञ्चयितुमाह - 'संफरिसे 'त्यादि गाथाद्वयं, संस्पर्शनमामर्शः स एवौषधिर्यस्यासावामभॊषधिःकरादिसंस्पर्शमात्रादेव विविधव्याधिव्यपनयनसमर्थो लब्धिलब्धिमतोरभेदोपचारात् साधुरेवामशैषधिरित्यर्थः, इदमत्र तात्पर्यं-यत्प्रभावात् स्वहस्तपादाद्यवयवपरामर्शमात्रेणैवात्मनः परस्य वा सर्वेऽपि रोगाः प्रणश्यन्ति सा आमभॊषधिः, 'मुत्तपुरीसाण विप्पुसो वावि'(ऽवयवा)त्ति मूत्रपुरीषयोर्विप्रुषः अवयवाः इह विपुडुच्यते, 'विप्पुसो वाऽवि'त्ति पाठस्तु ग्रन्थान्तरेष्वदृष्टत्वादुपेक्षितः, अथ चावश्यमेतद्वयाख्यानेन प्रयोजनं तदेत्थं व्याख्येयं वाशब्दः समुच्चये अपिशब्द एवकारार्थो भिन्नक्रमश्च, ततो मूत्रपुरीषयोरेवावयवा इह विपुडुच्यते इति, अन्ये तु भाषन्ते-विडिति विष्ठा पत्ति प्रश्रवणं मूत्रं, सूचकत्वात् सूत्रस्येति, तत 'एए'त्ति एतौ विपुण्मूत्रावयवौ 'अन्ने य' त्ति अन्ये च खेलजल्लकेशनखादयो बहवः सर्वे च समुदिता अवयवा येषां साधूनां सुरभयो रोगोपशमसमर्थाश्च ते साधवो भवन्ति, कथम्भूता इत्याह - 'तओसहिं पत्त' त्ति ते च ते औषधयश्च तदौषधयो-विण्मूत्रखेलजल्लकेशनखाद्यौषधयः सर्वोषधयश्च ताः प्राप्तास्तदौषधिप्राप्ताः, विण्मूत्राद्यौषधयः सर्वोषधयश्च साधवो भवन्तीत्यर्थः, एतदुक्तं भवति-यन्माहात्म्यान्मूत्रपुरीषावयवमात्रमपि रोगराशिप्रणाशाय सम्पद्यते सुरभि च सा विपुडौषधिः, तथा खेल:- श्लेष्मा जल्लो - मलः कर्णवदननासिकानयनजिह्वासमुद्भवः शरीरसम्भवश्च तौ खेलजल्लौ यत्प्रभावतः सर्वरोगापहारको सुरभी च भवतः सा क्रमेण खेलौषधिजल्लौषधिश्च, तथा यन्माहात्म्यतो विण्मूत्रकेशनखादयश्च सर्वेऽप्यवयवाः समुदिताः सर्वत्र भेषजीभावं सौरभं च भजन्ते सा सर्वौषधिरिति ॥१४९६॥ ॥१४९७॥
सम्प्रति सम्भिन्नश्रोतोलब्धिमाह -
'जो' इत्यादि, यः सर्वतः-सर्वैरपि शरीरदेशैः शृणोति स सम्भिन्नश्रोताः, अथवा यः सर्वानपि शब्दादीन् विषयान् सर्वैरपि श्रोतोभिः-इन्द्रियैर्जानाति, एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान् योऽवगच्छतीत्यर्थः, स सम्भिन्नश्रोतोलब्धिमान्, अथवा द्वादशयोजनविस्तृतस्य चक्रवर्तिकटकस्य युगपब्रुवाणस्य तत्तूर्यसङ्घातस्य वा समकालमास्फाल्यमानस्य सम्भिन्नान्-लक्षणतो विधानतश्च परस्परं विभिन्नान् जननिवहसमुत्थान्