________________
९१८
अष्टाविंशतिर्लब्धयः ऋजु सामान्यं तन्मात्रग्राहिणी ऋजुमति मनोज्ञानम् । प्रायो विशेषविमुखं घटमात्रं चिन्तितं जानाति ॥१४९९॥ विपुलं वस्तुविशेषाणां मानं तद्ग्राहिणी मतिर्विपुला । चिन्तितमनुसरति घटं प्रसङ्गतः पर्यवशतैः ॥१५००॥ आश्यो दंष्ट्राः तद्गतमहाविषा आशीविषा द्विविधभेदाः । ते कर्मजातिभेदेन अनेकधा चतुर्विधविकल्पाः ॥१५०१॥ क्षीरमधुसपिःस्वादोपमानवचनाः तदाश्रवाः भवन्ति । कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्ठबुद्धिकाः ॥१५०२।। यः सूत्रपदेन बहुं सूत्रमनुधावति पदानुसारी सः । यः अर्थपदेनाऽर्थमनुस्मरति स बीजबुद्धिकः ॥१५०३॥ अक्षीणमहानसिका भैक्षं येनानीतं पुनः तेन । परिभुक्तमेव क्षीयते बहुकैरपि न पुनः अन्यैः ॥१५०४॥ भवसिद्धिकपुरुषाणं एता भवन्ति भणितलब्धयः । भवसिद्धिकमहिलानामपि यावत्यो जायन्ते तत् वक्ष्यामि ॥१५०५॥ अर्हच्चक्रिकेशवबलसम्भिन्नाश्च चारणे पूर्वा । गणधरपुलाकाहारकञ्च न खलु भव्यमहिलानाम् ॥१५०६॥ अभव्यपुरुषाणां पुनः दश पूर्वतनाः केवलित्वञ्च । ऋजुमतिः विपुलमतिः त्रयोदश एता न खलु भवन्ति ॥१५०७।। अभव्यमहिलानामपि खलु एता भवन्ति भणितलब्धयः ।
मधुक्षीराश्रवलब्धिरपि नैव शेषास्तु अविरुद्धाः ॥१५०८॥) वृत्तिः - लब्धिशब्दस्य प्रत्येकमभिसम्बन्धात् आमशैषधिलब्धिः विपुडौषधिलब्धिः खेलौषधिलब्धिः जल्लौषधिलब्धिः सर्वौषधिलब्धिः सम्भिन्नेति 'सूचकत्वात्सूत्रस्य' सम्भिन्नश्रोतोलब्धिः अवधिलब्धिः ऋजुमतिलब्धिः विपुलमतिलब्धिः चारणलब्धिः आशीविषलब्धिः केवलिलब्धिः गणधरलब्धिः पूर्वधरलब्धिः अहल्लब्धिः चक्रवर्तिलब्धिः बलदेवलब्धिः वासुदेवलब्धिः क्षीरमधुसर्पिराश्रवलब्धिः कोष्ठकबुद्धिलब्धिः पदानुसारलब्धिः तथा बीजबुद्धिलब्धिः तेजोलेश्यालब्धिः आहारकलब्धिः शीतलेश्यालब्धिः वैकुर्विक