________________
पञ्चविंशतिविधं प्रतिलेखनम्
९०५ अत्राऽऽरभटादिषड्दोषमध्ये षष्ठः वेदिकादोषो नोक्तः किन्तु तत्स्थाने नर्तितदोष उक्तः । तत्प्रतिपक्षभूतस्याऽनतितविधेर्भावार्थ एवं प्रतिपादित उत्तराध्ययनसूत्रवृत्तौ - 'अनतितं, वस्त्रं वपुर्वा यथा नर्तितं न भवति । ( २६/२५)'
गुरुरेतदारभटादिषड्दोषविमुक्तं प्रतिलेखनं करोति ।
प्रतिलेखनं - वस्त्रादिषु प्राण्यादीनां प्रत्युपेक्षणम् । तत् पञ्चविंशतिविधम् । तद्यथा - १ एका दृष्टिप्रतिलेखना, २-७ षट् पुरिमाः, ८-१६ आस्फोटका नव, १७-२५ प्रस्फोटाश्च नव । यदुक्तं प्रवचनसारोद्धारे तद्वृत्तौ च -
"दिट्ठिपडिलेहणेगा नव अक्खोडा नवेव पक्खोडा।
पुरिमिल्ला छच्च भवे मुहपुत्ती होइ पणवीसा ॥९६॥' वृत्तिः - 'उत्कटिकासनः सन् मुखवस्त्रिका प्रसार्य तदर्वाग्भागं चक्षुषा निरीक्षेत इदमेकमालोकनं, ततस्तां परावर्त्य निरूप्य च त्रयः पुरिमाः-प्रस्फोटनरूपाः कर्त्तव्याः, तदनु तां परावर्त्य निरीक्ष्य च पुनरपरे त्रयः पुरिमाः, एवमेते षट्, ततो दक्षिणकराङ्गल्यन्तरे वधूटिकद्वयं त्रयं वा कृत्वा द्वयोर्जङ्घयोर्मध्ये प्रसारितवामकरतलोपरि त्रयस्त्रयः करप्रमार्जनारूपप्रस्फोटकानां त्रयेण त्रयेणान्तरिता आस्फोटकाः कर्त्तव्याः, अत्र आस्फोट अखोडा इति प्रसिद्धा नव, प्रमार्जनारूपाश्च प्रस्फोटा:-पखोडा इति प्रसिद्धा नव, एवमेते मिलिता मुखानन्तकपञ्चविंशतिः ॥९६॥'
ओघनियुक्तिवृत्तावप्युक्तम् - 'वस्त्रं चक्षुषा निरूप्य-अर्वाग्भागं निरूप्य त्रयः पुरिमाः कर्त्तव्याः, तथा परावर्त्यअपरभागं निरूप्य पुनरपरेऽपि त्रयः पुरिमाः कर्त्तव्याः, एवं एते षट् पुरिमाः, षड्वाराः प्रस्फोटनानीत्यर्थः, 'नव खोड' त्ति नव वाराः खोटकाः कर्त्तव्याः पाणेरुपरि 'पाणी पाणिपमज्जणं' त्ति प्राणिनां-कुन्थ्वादीनां पाणौ-हस्ते प्रमार्जनं नवैव वाराः कर्त्तव्याः ।'
गुरुरेतत्पञ्चविंशतिविधं प्रतिलेखनं सम्यक् करोति । इत्थं षट्त्रिंशद्गुणगणविभूषितो गुरुः प्रतिवादीन्जयतु ॥२८॥
इति सप्तविंशतितमी षट्त्रिशिका समाप्तिमगमत् ।