________________
९०३
आरभटादिषड्दोषाः (छाया- मोसली पूर्वोद्दिष्टा प्रस्फोटनं रेणुगुण्डितस्येव ।
_ विक्षेपां तूत्क्षेपः वेदिकापञ्चकं च षड् दोषाः ॥१६३॥) वृत्तिः - मोसली पूर्वोद्दिष्टा-पूर्वमेव भणितेत्यर्थः, [ अमोसलिं'ति न मोसली क्रिया यस्मिन् प्रत्युपेक्षणे तदमोसलि प्रत्युपेक्षणं, यथा मुशलं झटिति ऊर्ध्वं लगति अधस्तिर्यक् च, न एवं प्रत्युपेक्षणा कर्तव्या, किन्तु यथा प्रत्युपेक्षमाणस्य ऊर्ध्वं पीढिषु न लगति न च तिर्यक्कुड्ये न च भूमौ तथा कर्त्तव्यम् । - (२६६ तमनिर्युक्तिगाथावृत्तिः)] 'मोसलि'त्ति गयं, इदानीं 'पप्फोडण'त्ति व्याख्यायते तत्राह- 'पप्फोडण रेणुगुंडिए चेव' प्रकर्षेण धूननंस्फोटनं तद्रेणुगुण्डितस्येव वस्त्रस्य करोति, यथाऽन्यः कश्चिद्गृहस्थः रेणुना गुण्डितं सद्वस्त्रं प्रस्फोटयति एवमसावपि, इयं च न कर्त्तव्या । 'पप्फोडण'त्ति गयं, 'विक्खित्त'त्ति भण्यते, तत्राह - 'विक्खेवं तुक्खेवो' विक्षेपां तु तां विद्धि यत्र वस्त्रस्यान्यत्र क्षेपणं, एतदुक्तं भवति प्रतिलेखयित्वा वस्त्रमन्यत्र जवनिकादौ क्षिपति, अथवा विक्षेपो-वस्त्राञ्चलानामूर्ध्वं यत्क्षेपणं स उच्यते, स च प्रत्युपेक्षणायां न कर्त्तव्यः । 'विक्खित्त'त्ति गयं, 'वेदिय'त्ति व्याख्यायते, तबाह - 'वेदिअपणगं' च वेदिका पञ्चप्रकारा,
तंजहा - उड्डवेइया अहोवेइया तिरिअवेइया दुहओवेइया एगओवेइआ, तत्थ उडवेइआ उवरि जण्णुयाणं हत्थे काऊण पडिलेहड़, अहोवेइया अहोजण्णुयाणं हत्थे काऊण पडिलेहेइ, तिरियवेइया संडासगाणं मज्झे हत्थे णेऊण पडिलेहेति, दुहतोवेदिया बाहाणं अंतरे दोवि जण्णुगा काऊण पडिलेहेति, एगतोवेदिया एगं जण्णुअं बाहाणं अंतरे काऊण पडिलेहेति।
(छाया- तद्यथा - ऊर्ध्ववेदिका अधोवेदिका तिर्यग्वेदिका उभयतोवेदिका एकतोवेदिका । तत्र ऊर्ध्ववेदिका उपरि जानुकानां हस्तौ कृत्वा प्रतिलिखति । अधोवेदिका अधो जानुकानां हस्तौ कृत्वा प्रतिलिखति । तिर्यग्वेदिका सन्दन्शकानां मध्ये हस्तौ नीत्वा प्रतिलिखति । उभयतोवेदिका बाहयोरन्तरे द्वावपि जानुकौ कृत्वा प्रतिलिखति । एकतोवेदिका एकं जानुकं बाहयोरन्तरे कृत्वा प्रतिलिखति ।)
इदं वेदिकापञ्चकं प्रत्युपेक्षणां कुर्वता न कर्त्तव्यम् । 'छद्दोसा' इति एत आरभटादयः षड् दोषाः प्रत्युपेक्षणां कुर्वता न कर्त्तव्या इति ॥१६३॥'
इह वेदिकादोषः षड्दोषान्तर्गतोऽपि पृथगुक्तस्तत् तस्य पञ्चविधत्वज्ञापनार्थं तदपि