SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ९०२ आरभटादिषड्दोषाः आरभटयदोषः, २ सम्मर्द्ददोषः, ३ मोसलीदोषः, ४ प्रस्फोटनादोष ५ विक्षिप्तादोषः, ६ वेदिकादोषश्च । यदाह ओघनिर्युक्तौ तद्वृत्तौ च 'आरभडा संमद्दा वज्जेयव्वा य मोसली तईया । पप्फोडणा चउत्थी विक्खित्ता वेड्या छुट्टी ॥२६७॥ (छाया - आरभटा सम्मर्दा वर्जयितव्या च मोसली तृतीया । प्रस्फोटना चतुर्थी विक्षिप्ता वेदिका षष्ठी ॥ २६७॥) वृत्ति: - 'आरभड'त्ति आरभटा प्रत्युपेक्षणा न कार्या, 'संमद्दत्ति संमर्दा न कार्या, वर्जनीया च मोसली तृतीया, प्रस्फोटना चतुर्थी, विक्षिप्ता पञ्चमी, वेदिका षष्ठी विवर्जनीयेति द्वारगाथेयम् ॥२६७॥ इदानीं प्रतिपदं भाष्यकारो व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽह वितहकरणं च तुरिअं अण्णं अण्णं च गिण्हणाऽऽरभडा । अंतो व होज्ज कोणा निसियण तत्थेव संमद्दा ॥ १६२ ॥ (छाया - वितथकरणं च त्वरितं अन्यत् अन्यत् च ग्रहणं आरभटा । अन्तः वा भवन्ति कोणा निषीदनं तत्रैव सम्मर्दा ॥ १६२ ॥ ) - वृत्तिः - वितथं - विपरीतं यत्करणं तदारभटाशब्देनोच्यते सा चारभटय प्रत्युपेक्षणा न कार्या, विपरीता प्रत्युपेक्षणा न कर्त्तव्येत्यर्थः, वा - विकल्पे, इयं वाऽऽरभटोच्यते यदुत त्वरितमाकुलं यदन्यान्यवस्तुग्रहणं तदारभटाशब्देनोच्यते, सा च प्रत्युपेक्षणा न कर्त्तव्या, त्वरितमन्यान्यवस्त्रग्रहणं न कर्त्तव्यमित्यर्थः । ' आरभडे 'त्ति भणिअं, इदानीं संमर्दा व्याख्यायते, तत्राह - 'अंतो व होज्ज कोणा निसियण तत्थेव संमद्दा' अन्त:- मध्यप्रदेशे वस्त्रस्य संवलिताः कोणा यत्र भवन्ति सा सम्मर्दोच्यते, सा प्रत्युपेक्षणा या तादृशी क्रिया न कार्या, 'निसीयण तत्थेव 'त्ति तत्रैव - उपधिकायां उपविश्य यत्प्रत्युपेक्षणं करोति सा वा सम्मर्दोच्यते, सा च न कर्त्तव्या । 'संमद्दे 'त्ति भणिअं ॥ १६२ ॥ इदानीं मोसलीवर्जनं प्रतिपादनायाह - मोसलि पुव्वुद्दिट्ठा पप्फोडण रेणुगुंडिए चेव । विक्खेवं तुक्खेवो वेइयपणगं च छद्दोसा ॥ १६३॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy