________________
सप्तविंशतितमी षट्विशिका
अथ सप्तविंशतितमी षट्रिशिकामाह - मूलम् - पणवेइयाविसुद्धं, छद्दोसविमुक्कं पंचविसविहं ।
पडिलेहणं कुणंतो, छत्तीसगुणो गुरू जयउ ॥२८॥ छाया - पञ्चवेदिकाविशुद्धं, षड्दोषविमुक्तं पञ्चविंशतिविधं ।
__प्रतिलेखनं कुर्वन्, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२८॥ प्रेमीया वृत्तिः - पञ्चवेदिकाविशुद्धं - पञ्चविधैर्वेदिकादोषैविशुद्धं, तथा षड्दोषविमुक्तं - षड्भिर्दोषैर्विमुक्तं, तथा पञ्चविंशतिविधं - पञ्चविंशतिप्रकारं, प्रतिलेखनं - प्रत्युपेक्षणं, कुर्वन् - समाचरन्, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति सक्षेपार्थः ।
विस्तरार्थस्त्वयम् - प्रतिलेखनं कुर्वता वेदिकादोषा वर्जनीयाः । ते पञ्चविधाः । तद्यथा - १ ऊर्ध्ववेदिका, २ अधोवेदिका, ३ तिर्यग्वेदिका, ४ उभयवेदिका ५ एकवेदिका च । यदुक्तमुत्तराध्ययनसूत्रदीपिकायाम् -
'वेदिकायाः पञ्चभेदाः - १ ऊर्ध्ववेदिका, २ अधोवेदिका, ३ तिर्यग्वेदिका, ४ उभयवेदिका ५ एकवेदिका च । १ तत्रो वेदिका सा यस्यां उभयोर्जान्वोरुपरि हस्तयो रक्षणम् । २ अधोवेदिका सा यस्यां जान्वोरधः प्रचुरं हस्तयो रक्षणम् । ३ तिर्यग्वेदिका सा यस्यां तिर्यग् हस्तौ कृत्वा प्रतिलेखनम् । ४ उभयवेदिका सा यस्यां उभाभ्यां जानुभ्यां बाह्ये उभयोर्हस्तयो रक्षणम् । ५ एकवेदिका सा यस्यां एकं जानु हस्तमध्ये अपरं जानुबाह्ये रक्ष्यते । (२६/२६)'
गुरुरेतैः पञ्चभिर्वेदिकादोषैर्विशुद्धं प्रतिलेखनं करोति । प्रतिलेखनं कुर्वताऽऽरभटादिषड्दोषा अपि वर्जनीयाः । ते चैवं ज्ञेयाः - १