________________
४९१
षोडशविधाः कषायाः
'फरुसवयणेण दिणतवं, अहिक्खिवंतो य हणइ मासतवं । वरिसतवं सवमाणो, हणइ हणंतो य सामन्नं ॥' (उप० मा० गा० १३४) (छाया- परुषवचनेन दिनतपो-ऽधिक्षिपंश्च हन्ति मासतपः ।
वर्षतपः शपमानः, हन्ति ग्रंश्च श्रामण्यम् ॥) इत्यादिवद् व्यवहारनयमाश्रित्योच्यते, अन्यथा हि बाहुबलिप्रभृतीनां पक्षादिपरतोऽपि सज्वलनाद्यवस्थितिः श्रूयते, अन्येषां च संयतादीनामाकर्षादिकाले प्रत्याख्यानावरणानामप्रत्याख्यानावरणानामनन्तानुबन्धिनां चान्तर्मुहूर्तादिकं कालमुदयः श्रूयत इति । तथा नरकगतिकारणत्वादनन्तानुबन्धिनः कषाया अपि नरकाः, भवति च कारणे कार्योपचारः, यथा - 'आयुर्घतम्, नड्वलोदकं पादरोगः' इति । एवं तिर्यग्गतिकारणत्वात् तिर्यञ्चोऽप्रत्याख्यानावरणाः, नरगतिकारणत्वान्नराः प्रत्याख्यानावरणाः, अमरगतिकारणत्वादमराः सञ्चलनाः । एतदुक्तं भवति - अनन्तानुबन्ध्युदये मृतो नरकगतावेव गच्छति, अप्रत्याख्यानावरणोदये मृतस्तिर्यक्षु, प्रत्याख्यानावरणोदये मृतो मनुष्येषु, सञ्चलनोदये पुनर्मृतोऽमरेष्वेव गच्छति । उक्तश्चायमर्थः पश्चानुपूर्व्याऽन्यत्रापि -
'पक्खचउमासवच्छरजावज्जीवाणुगामिणो भणिया ।
देवनरतिरियनारयगइसाहणहेयवो नेया ॥' (विशे० गा० २९९२) (छाया- पक्षचतुर्मासवत्सरयावज्जीवानुगामिनो भणिताः ।
देवनरतिर्यग्नारकगतिसाधनहेतवो ज्ञेयाः ॥) इदमपि व्यवहारनयमधिकृत्योच्यते, अन्यथा हि अनन्तानुबन्ध्युदयवतामपि मिथ्यादृशां केषाञ्चिदुपरितनग्रैवेयकेषूत्पत्तिः श्रूयते, प्रत्याख्यानावरणोदयवतां देशविरतानां देवगतिः, अप्रत्याख्यानावरणोदयवतां च सम्यग्दृष्टिदेवानां मनुष्यगतिः । तथा 'सम्म' त्ति सम्यक्त्वं च 'अणुसव्वविरइ' त्ति विरतिशब्दस्य प्रत्येकं सम्बन्धाद् अणुविरतिश्च-देशविरतिः सर्वविरतिश्च यथाख्यातचारित्रं च सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्राणि तेषां घात:-विनाशः सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्रघातस्तं कुर्वन्तीत्येवंशीलाः सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्रघातकराः । एतदुक्तं भवति - अनन्तानुबन्धिनः कषायाः सम्यक्त्वघातकाः । यदाहुः श्रीभद्रबाहुस्वामिपादाः -
'पढमिल्ल्याण उदए, नियमा संजोयणाकसायाणं । सम्मइंसणलंभं, भवसिद्धीया वि न लहंति ॥' (आ० नि० गा० १०८)