SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ४९२ षोडशविधाः कषायाः (छाया- प्राथमिकानामुदये, नियमात्संयोजनाकषायाणाम् । सम्यग्दर्शनलाभं, भवसिद्धिका अपि न लभन्ते ॥) अप्रत्याख्यानावरणा देशविरते_तकाः, न सम्यक्त्वस्येत्याल्लब्धम् । यदाहुः पूज्यपादाः 'बीयकसायाणुदये, अप्पच्चक्खाणनामधिज्जाणं । सम्मइंसणलंभं, विरयाविरयं न उ लहंति ॥' (आ० नि० गा० १०९) (छाया- द्वितीयकषायाणामुदये-ऽप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभं, विरताविरतं न तु लभन्ते ॥)। प्रत्याख्यानावरणास्तु सर्वविरतर्घातकाः, सामर्थ्यान्न देशविरतेः । उक्तं च - 'तइयकसायाणुदये, पच्चक्खाणावरणनामधिज्जाणं । देसिक्कदेसविरई, चरित्तलंभं न उ लहंति ॥' (आ० नि० गा० ११०) (छाया- तृतीयकषायाणामुदये, प्रत्याख्यानावरणनामधेयानाम् । देशैकदेशविरति, चरित्रलाभं न तु लभन्ते ॥) सञ्चलनाः पुनर्यथाख्यातचारित्रस्य घातकाः, न सामान्यतः सर्वविरतेः । उक्तं च श्रीमदाराध्यपादैः - 'मूलगुणाणं लंभं, न लहइ मूलगुणघाइणं उदए । संजलणाणं उदए, न लहइ चरणं अहक्खायं ॥' (आ० नि० गा० १११) (छाया- मूलगुणानां लाभं, न लभते मूलगुणघातिनामुदये । सज्वलनानामुदये, न लभते चरणं यथाख्यातम् ॥) इति ॥१८॥ अथ जलरेखादिदृष्टान्तेन किञ्चित्सविशेष क्रोधादिकषायाणां स्वरूपं व्याचिख्यासुराह - जलरेणुपुढविपव्वयराईसरिसो चउव्विहो कोहो । तिणिसलयाकट्ठियसेलत्थंभोवमो माणो ॥१९॥ (छाया- जलरेणुपृथिवीपर्वतराजिसदृशः चतुर्विधः क्रोधः । ___तिनिसलताकाष्ठास्थिकशैलस्तम्भोपमः मानः ॥१९॥) वृत्तिः - इह राजिशब्दः सदृशशब्दश्च प्रत्येकं सम्बध्यते । ततो जलराजिसदृशस्तावत् सज्वलनः क्रोधः, यथा यष्ट्यादिभिर्जलमध्ये राजी-रेखा क्रियमाणा शीघ्रमेव निवर्तते, तथा
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy