SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ षोडशविधाः कषायाः तथाप्यवश्यमनन्तसंसारमौलकारणमिथ्यात्वोदयाक्षेपकत्वादेषामेवानन्तानुबन्धित्वव्यपदेशः । शेषकषाया हि नावश्यं मिथ्यात्वोदयमाक्षिपन्ति, अतस्तेषामुदययौगपद्ये सत्यपि नायं व्यपदेश इत्यसाधारणमेतेषामेवैतन्नामेति । तथा न वेद्यते स्वल्पमपि प्रत्याख्यानं येषामुदयादतोऽप्रत्याख्यानाः । यदभाणि ४९० — 'नाल्पमप्युत्सहेद्येषां प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसञ्ज्ञाऽतो, द्वितीयेषु निवेशिता ॥' ते चत्वारः क्रोधमानमायालोभाः । तथा प्रत्याख्यानं - सर्वविरतिरूपमावृण्वन्तीति प्रत्याख्यानावरणाः । यन्त्र्यगादि - 'सर्वसावद्यविरतिः प्रत्याख्यानमिहोच्यते । तदावरणसञ्ज्ञाऽतस्तृतीयेषु निवेशिता ॥ ' ते चत्वारः क्रोधमानमायालोभाः । तथा परीषहोपसर्गोपनिपाते सति चारित्रिणमपि 'संशब्द ईषदर्थे' सम्-ईषद् ज्वलयन्ति - दीपयन्तीति सञ्ज्वलनाः । यदभ्यधायि - 'परीषहोपसर्गोपनिपाते यतिमप्यमी । समीषद् ज्वलयन्त्येव, तेन सञ्ज्वलनाः स्मृताः ॥' ते चत्वारः क्रोधमानमायालोभाः । तदेवं चत्वारश्चतुष्ककाः षोडश भवन्तीति ॥१७॥ उक्ताः षोडश कषायाः, सम्प्रत्येतेषामेव विशेषतः किञ्चित् स्वरूपं प्रतिपिपादयिषुराह - जाजीववरिसचउमासपक्खगा नरयतिरियनरअमरा । सम्माणुसव्वविरई अहखायचरित्तघायकरा ॥१८॥ (छाया - यावज्जीववर्षचतुर्मासपक्षगाः नरकतिर्यग्नरामराः । सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्रघातकराः ॥ १८॥ वृत्तिः - 'जाजीव' त्ति 'यावत्तावज्जीवितावर्तमानावटप्रावारकदेवकुलैवमेवे वः ।' (सि० ८-१-२७१ ) इति प्राकृतसूत्रेण वकारलोपे यावज्जीवं च वर्षं च चतुर्मासं च पक्षश्च यावज्जीववर्षचतुर्मासपक्षास्तान् गच्छन्तीति यावज्जीववर्षचतुर्मासपक्षगाः । 'नाम्नो गमः खड्डौ च विहायसस्तु विहः । ' ( सि० ५ - १ - १३१ ) इति डप्रत्ययः । इदमुक्तं भवति यावज्जीवानुगा अनन्तानुबन्धिनः, वर्षगा अप्रत्याख्यानावरणाः, चतुर्मासगाः प्रत्याख्यानावरणाः, पक्षगाः सञ्ज्वलनाः । इदं च - -
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy