________________
षोडशविधाः कषायाः
४८९ कष:-कर्म संसारो वा, आय:-लाभः, कषस्याऽऽयोभवत्येभिरिति कषायाः । ते षोडशविधाः । तद्यथा - १ क्रोधो, २ मानो, ३ माया ४ लोभश्च । ते प्रत्येकं चतुर्विधाः, तथाहि - १ अनन्तानुबन्धिनः, २ अप्रत्याख्यानावरणाः, ३ प्रत्याख्यानावरणाः ४ सज्वलनाश्चेति । उक्तञ्च प्रथमकर्मग्रन्थे तद्वत्तौ च -
'सोलस कसाय नव नोकसाय, दुविहं चरित्तमोहणियं ।
अण अप्पच्चक्खाणा, पच्चक्खाणा य संजलणा ॥१७॥ (छाया- षोडश कषाया नव नोकषाया, द्विविधं चारित्रमोहनीयम् ।
अनन्तानुबन्धिनः अप्रत्याख्यानाः, प्रत्याख्यानाश्च सज्वलनाः ॥१७॥) वृत्तिः - द्विविधं द्विभेदं चारित्रमोहनीयं भवति, तद्यथा - 'सोलस कसाय' त्ति कष्यन्ते-हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः-संसारः, कषमयन्ते-गच्छन्त्येभिर्जन्तव इति कषायाः । यद्वा कषस्याऽऽयः-लाभो येभ्यस्ते कषायाः क्रोधमानमायालोभाः । तत्र क्रोधोऽक्षान्तिपरिणतिरूपः, मानो जात्यादिसमुत्थोऽहङ्कारः, माया परवञ्चनाद्यात्मिका, लोभोऽसन्तोषात्मको गृद्धिपरिणामः । ततः षोडशसङ्ख्याः कषायाः कषायमोहनीयमुच्यते । विभक्तिलोपश्च प्राकृतत्वात्, एवमुत्तरत्रापि । 'नव नोकसाय' त्ति कषायैः सहचरा नोकषायाः, ते च नव - हास्यादयः षट् त्रयो वेदाः । अत्र नोशब्दः साहचर्यवाची । एषां हि केवलानां न प्राधान्यमस्ति, किन्तु कषायैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति, तद्विपाकसदृशमेव विपाकं दर्शयन्ति, बुधग्रहवदन्यसंसर्गमनुवर्तन्ते इति भावः । कषायोद्दीपनाद्वा नोकषायाः । उक्तं च -
'कषायसहवर्तित्वात्, कषायप्रेरणादपि ।
हास्यादिनवकस्योक्ता, नोकषायकषायता ॥' ततो नवसङ्ख्या नोकषाया नोकषायमोहनीयमुच्यते । अथ यथोद्देशं निर्देशः इति न्यायात् प्रथमं कषायमोहनीयं व्याख्यानयन्नाह - 'अण अप्पचक्खाणा' इत्यादि । 'अण' त्ति अनन्तानुबन्धिनः । तत्रानन्तं संसारमनुबध्नन्तीत्येवंशीला अनन्तानुबन्धिनः । यदवाचि -
'यस्मादनन्तं संसारमनुबध्नन्ति देहिनाम् ।
ततोऽनन्तानुबन्धीति, सञ्ज्ञाऽऽद्येषु निवेशिता ॥' ते चत्वारः क्रोधमानमायालोभाः । यद्यपि चैतेषां शेषकषायोदयरहितानामुदयो नास्ति,